Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भिक्खु 1564 - अमिधानराजेन्द्रः - भाग 5 मिक्खु क्षुधम् अष्टप्रकारं कर्म भिन्दानो भिक्षुः, यते प्रयत्ने संयमयोगेषु यतमानः प्रयत्नवान् यतिः, तपःसंयमे-तपःप्रधानसंयमे वर्तमानस्तपरची, तपोऽस्यास्तीति तपस्वीति व्युत्पत्तेः / भवनारकाऽऽदिभव क्षपयन् भवान्तः, भवमन्तयति भवस्याऽन्तं करोतीती इति व्युत्पत्तेः / व्य०१ उन इदानीं लिङ्गद्वारं व्याचिख्यासुराहसंवेगो निव्वेगो, विसयविवेगो सुसीलसंसग्गो। आराहणा तवो नाणदंसणचरित्तविणओ अ॥३४८|| संवेगो मोक्षसुखाभिलाषः, निर्वेदः संसारविषयः, विषयविवेको विषयपरित्यागः, सुशीलसंसर्गः शीलवद्भिः सम्बन्धः, तथा-आराधना चरमकाले निर्यापणरूपा, तपो यथाशक्त्यनशनाऽऽद्यासेवन, ज्ञानं यथावस्थितपदार्थविषयमित्यादि, दर्शन नैसर्गिकाऽऽदि, चारित्रं सामायिकाऽऽदि, विनयश्च ज्ञानाऽऽदिविनय इति गाथाऽर्थः / / 348 / / तथा एवं संयमचरकः सप्तदशप्रकारसंयमानुष्ठायी चरकः एवं भवं संसारं क्षपयन् परीत कुर्वन् स एव भवान्तो भवति, नान्यथेति गाथाऽर्थः / / 343 / / प्रकारान्तरेण निरुक्तमेवाऽऽहजं भिक्खमत्तवित्ती, तेण व भिक्खू खवेति जं व अणं। तवसंजमे तवस्सि,त्ति वावि अन्नो विपजाओ॥३४४॥ यद्यस्मादिक्षामात्रवृत्तिर्भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षुः भिक्षणशीलो भिक्षुरिति कृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षपयति यद्यस्मात् वा ऋण कर्म तस्मात् क्षपणः, क्षपयतीति क्षपण इति कृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः, तस्मिन् विद्यमाने तपस्वीति वाऽपि भवति। तपोऽस्यास्तीति कृत्वा अन्योऽपि पर्यायः इत्यन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथाऽर्थः // 344 / / उक्तं निरुक्तद्वारम् / अधुनैकार्थिकद्वारमाहतिन्ने ताई दविए, वई य खंते य दंतविरए अ। मुणितावसपन्नवगुजु-भिक्खू बुद्धे जइ विऊ य / / 345 / / तीर्णवत्तीर्णःविशुद्धसम्यग्दर्शनादिलाभाद्भवार्णवमितिगम्यते। तायोऽस्यास्तीति तायी, तायः सुदृष्टभार्गोक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः / द्रव्यं रागद्वेषरहितः, व्रती च हिंसाऽऽदिविरताश्च क्षान्तश्व क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरि निष्ठा। एवं दाम्यतीन्द्रियाऽऽदि दम करोतीति दान्तः विरतश्च विषयसुखनिवृत्तश्च, मुनिमन्यते जगतस्त्रिकालावस्थामिति मुनिः, तपःप्रधानः तापसः प्रज्ञापकः अपवर्गमार्गस्य प्ररूपकः, ऋजुर्मायारहितः संयमवान् वा, भिक्षुः पूर्ववत्, बुद्धोऽवगततत्त्वो, यतिरुत्तमाऽऽश्रमी प्रयत्नवान् वा, विद्वाँश्च पण्डितश्चेति गाथाऽर्थः // 34 // तथापव्वइए अणगारे, पासंडी चरग बंभणे चेव। परिवायगे य समणे, निग्गंथे संजए मुत्ते / / 346 / / प्रवजितः पापान्निष्क्रान्तः, अनगारो द्रव्यभावागारशून्यः, पाखण्डी पाशाहीनः, चरकः पूर्ववत्, ब्राह्मणश्चैव विशुद्धब्रह्मचारी, चैव, परिव्राजकश्च पापवर्जकश्च, श्रमणः पूर्ववत्, निर्गन्थः संयतो मुक्त इत्येतदपि पूर्ववदेवेति गाथार्थः॥३४६|| खंतीय मद्दवऽज्जव, विमुत्तया तह अदीणय तितिक्खा। आवस्सगपरिसुद्धी, य होंति भिक्खुस्स लिंगाई / / 346 / / क्षान्तिवाऽऽक्रोशाऽऽदिश्रवणेऽपि क्रोधत्यागश्च माईवाऽऽर्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागान्माईवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथा अशनाऽऽऽऽद्यलाभेऽपि अदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा आवश्यकपरिशुद्धिश्वाऽऽवश्यककरणीययोगनिरतिचारता च, भवन्ति भिक्षोविसाधोलिङ्गान्यनन्तरोदितानि संवेगाऽऽदीनीति गाथाऽर्थः // 346 / / व्याख्यातं लिङ्गद्वारम्। अवयवद्वारमाहअज्झयणगुणी भिक्खू, न सेस इइ णो पइन्न को हेऊ? अगुणत्ता इइ हेऊ, को दिटुंतो? सुवण्णमिव / / 350|| 'अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'न शेषः तद्गुणरहित इति / 'नःप्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः?' कोऽत्रपक्षधर्म इत्याशङ्-क्याऽऽह- 'अगुणत्वादिति हेतुः' अविद्यमानगुणोऽगुणस्तद्धावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः?' किं पुनरत्र निदर्शनमित्याशझ्याऽऽह-'सुवर्णमिव' यथा सवुर्ण स्वगुणरहितं सुवर्ण न भवति तद्वदिति गाथाऽर्थः / / सुवर्णगुणानाहविसघाइरसायण मंगलत्थ विणिऍ पयाहिणावत्ते। गुरुए अडज्झऽकुत्थे, अट्ठ सुवण्णे गुणा भणिआ।१३५१।। 'विषघाति' विषधातनसमर्थ, 'रसायनं' वयस्तम्भनकर्तृ, 'मङ्गलार्थ' मङ्गगलप्रयोजन, 'विनीत' यथेष्टकटकाऽऽदिप्रकारसम्पादनेन प्रदक्षिणाऽऽवर्त्त, तप्यमान प्रादक्षिण्येनाऽऽवर्त्तते, 'गुरु' सारोपेतम् 'अदाह्य' नाग्निना दह्यते, 'अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः सुवर्णे' सुवर्णविषया गुणा भणितास्तत्स्वरूपज्ञैरिति गाथाऽर्थः / उक्ताः सुवर्णगुणाः साम्प्रतमुपनयमाहचउकारणपरिसुद्धं, कसछेअणतावतालणाए / तथा साहू लूहे अ तहा, तीरट्ठी होइ चेव नायव्वो। नामाणि एवमाई-णि हों ति तवसंयमरयाणं // 347 / / साधुः रूक्षक्ष तथेति निर्वाणसाधकयोगसाधनात्साधुः, स्वजनाऽऽदिषु स्नेहविरहादूक्षः, तीरार्थी चैव भवति ज्ञातव्य इति तीरार्थी भवार्णवस्य, नामान्येकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति / केषामित्याह- तपःसंयमरतानां भावसाधुनामिति गाथाऽर्थः // 347 // दश० 10 अ०। प्रतिपादितमेकार्थिकद्वारम्। भिक्षोरपिशक्रपुरन्दरवदशून्यकार्थिकानि भिक्षुः यतिः तपस्वी भवान्त इति। तथा चैतेषां व्युत्पत्तिमाहभिंदेतो यावि खुहं, मिक्खू जयमाणगो जई होइ। तवसंजमे तवस्सी, भवं खिवंतो भवंतो य॥१२॥

Page Navigation
1 ... 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636