Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1536 - अभिधानराजेन्द्रः - भाग 5 भासा त्वात् प्रतिसमयनिसर्गप्रतिपादकमपि दृष्टव्यं, गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गादिति। अत्र परः प्राहआह सुए चिअ निसिरइ, संतरियं न उ निरंतरं भणिों। एगेण जओ गिण्हइ, समयेणेगेण सो मुयइ / / 367 / / ' ननु यथा स्वपक्षसमर्थक सूत्रं त्वया दर्शितं, तथा श्रुत एवारमत्पक्षसमर्थकमपि तद्भणितमेव / कि तत्? इत्याह- (निसिरइ इत्यादि) इदं प्रज्ञापनोक्तसूत्रं गाथायामुपनिबद्धम् / तच्चेदम्-"संतर निसिरइ, नो निरन्तर निसिरइ; एगेणं समएणं गेण्हइ, एगेणं समएणं निसिरइ।" इत्यादि / तदनेन सूत्रेण निसर्गस्य सान्तरस्योक्तत्वात् मद्व्याख्यानमुपपन्नमेवेति परस्याऽभिप्रायः // 367 / / अत्रोत्तरमाहअणुसमयमणंतरियं, गहणं भणियं जओ विमोक्खो वि। जुत्तो निरन्तरो चिय, भण्णइ कह संतरो भणिओ? ||368|| आचार्यः प्राह- हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहित प्राक्तनसूत्रेण भणित प्रतिपादितमिति भवतोऽपि प्रतीतम् / यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीत-स्याऽवश्य - मेवानन्तरसमये निसर्गादिति / प्रेरकः पुनरपि भणति / किम् इत्याह(कह संतरो भणिओ त्ति) इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं, पर यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते? इति भावानपि निवेदयतु। सत्यं, किंतु विषयविभागोऽत्र दृष्टव्यः // 368 / / कः पुनरयम्? इति गुरुराहगहणावेक्खाएँ तओ, निरंतरं जम्मि जाइँ गहिआई। न वि तम्मि चेव निसिरइ, जह पढमे निसिरणं नत्थि // 366 / / तकोऽसौ निसर्गा ग्रहणाऽपेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणंमपेक्ष्येत्यर्थः, सान्तर उक्तः, इति शेषः / ननु समयाऽपेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनर्ग्रहणापेक्षया सान्तरत्वम् ? इत्याह'निरन्तरमित्यादि' यतो यस्मिन् प्रथमाऽऽदिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन् एव ग्रहणसमये नैरन्तर्येण निःसृजति किं तु ग्रहणसमया दनन्तरसमय निसृजति, यथा प्रथम-समयगृहीताना न तस्मिन्नेव समये निसर्जनं निसर्गः किं तु द्वितीय-समये ; एवं द्वितीयसमयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम्। तदेवं ग्रहणाऽपेक्षया निसर्गः सान्तर 'स्व, अगृहीतानां निसर्गायोगात् / समयाऽपेक्षया त्वसौ निरन्तर एव द्वितीयाऽऽदिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति॥३६६॥ आह- यद्येवं, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु, नैवं ग्रहणस्य स्वतन्त्रत्वात्, निसर्गस्य तु ग्रहणपरतन्त्रत्वात्। कुतः ? इत्याहनिसिरिजइ नागहियं, गहणंतरियं ति संतरं तेणं / न निरन्तरं न समगं, न जुगवमिह होति पज्जाया // 370 / / नागृहीतं कदापि निसृज्यत इति नियम एवायम्। (संतरं तेणं ति) तेन कारणेन निसर्जन प्रज्ञापनायां सान्तरमुक्तम्। कुत इत्याह- (ग्रहणतरियं ति) ग्रहणान्तरितमिति कृत्वा / 'नानिसृष्ट गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरेणापि ग्रहणसद्भावाद, अतः स्वतन्त्रं ग्रहणं, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः। तदेवम् - "संतरं निसिरइ।" इति प्रज्ञापनायाः सूत्रा-वयवो विषयविभागे व्यवस्थापितः। अथ 'नो निरन्तरं निसिरइ'' इति तदवयवस्यैव भावार्थमाह- 'न निरंतर त्ति।" इत्यादि। किमुक्तं भवति? न निरन्तरं निसृजति, न समक, न युगपदिति पर्यायाः। ततश्च किमिह तात्पर्यमिति? उच्यते- न ग्रहणसमकालं निसृजति। किं तर्हि?, पूर्व पूर्व गृहीतमुत्तरोत्तरसभयेषु निसृजतीति। "ननु एगेणं समएणं गिण्हइ.एगेणं समएणं निसिरइ।' इत्येतस्य भावार्थो नाद्याप्युक्तः। सत्यं, किं तूक्तानुसारेण स्वयमप्ययमवगन्तव्यः- ताऽऽद्येनेकैन समयेन गृह्णात्येव, न निसृजति, द्वितीयाऽऽदिसमयादारभ्यैव निसर्गस्य प्रवृत्तेः; पर्यन्त वर्तिनात्वेकेन समयेन निसृजत्येव, न तु गृह्णाति, भाषाऽभिप्रायोपरमादिति, मध्यमसमयेषु तु ग्रहणनिसर्गाविति / अथवा-एकेन पूर्वपूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् / तदेवं समस्तमपि सूत्रं व्यवस्थापितं विषये।।३७०।। (11) अथ ग्रहणाऽऽदेर्जधन्यमुत्कृष्टं च कालमानमाहगहणं मोक्खो भासा, समयं गहनिसिरणं च दो समया। होंति जहन्नंतरओ,तं तस्स च वीयसयम्मि॥३७१।। गहणं मोक्खो भासा, गहणविसग्गा य होंति उक्कोसं / अंतोमुहुत्तमित्तं, पयत्तभेदेण भेओ सिं // 372|| इह वागद्रव्याणां ग्रहणं तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषा, एतानि त्रीण्यपि जघन्यतः प्रत्येकमेव समय भवन्ति, ग्रहणनिसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयात द्वितीयसमये निसर्ग कृत्वा नियमाणस्य, तिष्ठतो वा वचनव्यापारादुपरतम्य जघन्यतो द्वौ समयौ भवतः। आह- ननु मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषाऽपि निसर्ग एवाऽभिधीयते, ततः किमिति मोक्षात् पृथक् भाषायाः कालमानाभिधानार्थमुपादानम्? सत्यं, किं त्वनेनैव भाषायाः पृथग्रहणेन ज्ञापयति, यदुत भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः तस्यैव जघन्यतः समयमानत्वाद्, न तूभयं भाषा. तस्य जघन्यतो द्विसमयमानत्वात्, ग्रहणमात्रं तु केवलं भाष्यत इति भाषा, इति व्युत्पत्त्यर्थस्यैवाघटनादाषा न भवत्येवेति। यदि चेह भाषा पृथक् न गृहीता स्यात्, तदोभयस्यापि कश्चिद्भ

Page Navigation
1 ... 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636