Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1546
________________ भासा 1538 - अभिधानराजेन्द्रः - भाग 5 भासा (13) औदारिकाऽऽदिशरीरवान भाषां गृह्णाति, मुञ्चति चेत्युक्तम्। सा पुनर्मुक्ता सती कियत् क्षेत्र व्याप्नोति? इति वक्तव्यम्। उच्यते-समस्तमपि लोकम्। आह- यद्येवम्कइहिं समएहि लोगो, भासाएँ निरन्तरं तु होइ फुडो। लोकस्स य कइभाए, कइभाओ होइ भासाए // 375|| अथवा द्वादशभ्यो योजनेभ्यः परतो न शृणोतिशब्द मन्दपरिणामत्वाद् द्रव्याणामित्युक्तम्। तत्र किं परतोऽपिशब्दद्वव्याणामागतिरस्ति? यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्थ्यम्, एवं बहिरप्यस्ति, उत न? इति। उच्यते- अस्तिकेषाञ्चित्कृत्स्नलोकव्याप्तेः। आह-यद्येवम्, कइहिं० इत्येवं संबन्धद्वयसमायातेयं गाथा व्याख्यायते- लोक्यत इति लोक श्वतुर्दशरज्ज्वात्मकः क्षेत्रलोकोऽत्र परिगृह्यते / स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाद्रव्यैर्निरन्तरमेव भवति, स्पृष्टोव्याप्तः? तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणामिति?||३७८॥ अत्रोच्यतेचउहिँ समएहिं लोगो, भासाएँ निरन्तरं तु होइ फुडो। लोगस्स य चरिमंते, होइ भासाए // 376 / / चतुर्भिः समयैर्लोको भाषया कस्यचित्संबन्धिन्या निरन्तरमेव पूर्णो भवति / लोकस्यच चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्यर्थः / तस्मिश्चरमान्ते असंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्चरमान्तोऽसंख्येयभागो भवतीति नियुक्तिगाथाद्वयार्थः / / 376 / / आह- किं सर्वस्या अपि भाषा लोकं व्याप्नोति? नैतदेवमिति दर्शयन्नाह भाष्यकार:कोई मंदपयत्तो, निसिरइ सयलाई सव्वदव्वाई। अन्नो तिघ्वपयत्तो, सो मुंबई मिंदिउं ताइं॥३०॥ कोऽप्युरःक्षताऽऽधुपेतत्वेन मन्दप्रयत्नो वक्ता सर्वाण्यपि भाषाद्रव्याणि प्रथमं सकलानि संपूर्णानि अखण्डान्यभिन्नानीति यावत्, निसृजति मुश्चति; अन्यस्तु नीरोगताऽऽदिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादाननिसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्या सूक्ष्मखण्डीकृत्य मुञ्चति। तत्रोभयेषामप्यग्रतो यद्भवति, तद्दर्शयन्नाहगंतुमसंखेज्जाओ, अवगाहणवग्गणा अभिन्नाई। भिज्जते धंसंति य, संखिले जोयणे गंतुं // 381|| मिन्नाइँ सुहुमयाए, अणंतगुणवड्डियाइँ लोगंतं / पावंति पूरयंति य, भासाऐं निरंतरं लोगं // 382 / / अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशाऽऽत्मक क्षेत्रविभागरूपा तासामवगाहनानामनन्तभाषाद्रव्यस्कन्धाऽऽश्रयभूतक्षेत्रविशेषरूपाणां वर्गणासमुदायः ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दप्रयत्नवक्तृनिसृष्टान्यऽभिनानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति। सङ्ख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणामं विजहतीत्यर्थः। उक्तं च प्रज्ञापनायां भाषापदे- "जाई अभिन्नाई निसिरइ, ताई असंखेचाओ ओगाहणाओ गता भेयमावति, संखेज्जाई जोयणाइं गत्ता विद्धसमागच्छति।'' यानि तु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाबहुत्वाचानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमाप्नुयन्ति, शेषतु तत्पराघातवासना विशेषाद्वासितया भाषया उत्पन्नभाषापरिणामद्रव्यसंहतिरूपया सर्व लोकंनिरन्तरमापूरयन्ति "वक्ष्यमाणन्यायेन त्र्यादिभिः समथैः" इति वाक्यशेषः / उक्तं च- "जाइं भिन्नाई निसिरइ, ताई अणतगुणपरिवड्डीए परिवड्डमाणाई लोयंत फुसंति।" // 381 / 382 / / ('कैवलि समुग्घाय' शब्दे तृतीयभागे 663 पृष्ठेऽत्र विशेषः।) यद्येवम्, अचितमहास्कन्धिजीवयोगत्वाभावेऽपि कथं द्वितीय-समये कपाटमात्रस्यैव भावात प्रज्ञापनाऽऽदिषु चतुःसमयता प्रोक्ता, इत्याशयाऽऽहखंधो वि वीससाए, न पराघाओ य तेण चउसमओ। अह होज पराघाओ, हविज तो सो वि तिसमइओ // 36 // स्कन्धोऽचित्तमहास्कन्धः सोऽपि विश्रसया केवलेन विश्रसापरिणामेन भवति, न तु जीवप्रयोगेण। विश्रसापरिणामश्च विचित्रत्वान्न पर्यनुयोगमर्हति / किं च-न तत्र पराघातोऽस्तिनान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किं तु स निजपुद्गलैरेव लोकं पूरयति / ततोऽसौ चतुः समयो भवति। अथ तत्रापिपराघातो भवेत, ततः सोऽपि त्रिसामायिको भवेत- त्रिभिरेव समयैर्लोकमापूरयेदित्यर्थः / न चैवम्, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वातातस्मान्नास्ति तत्र पराघातः अत्र त्वस्त्यसौ, इति वैषम्यमिति // 364 / / __ अथानादेशप्रस्तावादपरमपि मतमुपन्यस्य दूषयतिएगदिसमाइसमये, दंडं काऊण चऊहिँ पूरेइ। अन्ने भणंति तं पिय, नाऽऽगमजुत्तिक्खम होइ॥३६५|| अन्ये केचिद्भाषन्ते-आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयलॊकमापूरयति / एतदुक्तं भवति- प्रथमसमये तायदूर्ध्वदिशि दण्ड करोति, द्वितीयसमये तत्र मन्थानम्, अधोदिशि पुनर्दण्ड, तृतीयसमये ऊर्द्धदिश्यन्तरालपूरणमधोदिशि तु मन्थानं करोति, चतुर्थसमये तु तत्राप्यन्तरालपूरणात्समस्तमपि लोकं भाषाद्रव्यैः पूरयति / तदेतदपि नागमक्षम, क्वचिदप्यागम एवमश्रवणात् / नापि युक्तिक्षमम् / का ह्यत्र युक्तिः, यदनुश्रेणिगमनस्वभावानां पुद्र-लानामेकया दिशागमनं भवति, नान्यया ? वक्तृमुखताल्वादि-प्रयत्नप्रेरणमत्र युक्तिरिति चेत् / नैवं, यतो वक्ता कदाचिद्विश्रेण्याऽभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, ततश्च विदिश्यपि तेषां गमनप्रसङ्गः। किं चैवं सति पटहाऽऽदिशब्दपुद्गलानां चतुः समयानियम एव स्याद्वक्तृप्रयत्नस्य तेष्वभावात्। तरमाधुक्त्यागमविरुद्धत्वादुपेक्षणीयमेवेदमिति // 365|| विशे०। आoमः | नंग सम्प्रति भाषाद्रव्यग्रहणाऽऽदिविषयसंशयाप नोदार्थमाहजीवे णं भंते ! जाइं दवाइं भासत्ताए गिण्हति, ताई किं ठियाइं गेण्हति, अट्ठियाई गेण्हति? गोयमा ! ठियाई गिण्हति,नो अट्टियाइंगिण्हति / जाई भंते ! ठियाई गिण्हति, ताइं किं दव्वतो गिण्हति, खेत्ततो गिण्हति, कालतो गिण्हति, भावतो गिण्हति? गोयमा ! दव्वओ वि गिण्हति,

Loading...

Page Navigation
1 ... 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636