Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1559
________________ भासा 1551 - अभिधानराजेन्द्रः - भाग 5 भासा पवती स्त्री, तद्विपर्ययणापनीतवचनम्-यथेय रूपहीने ति, उपनीतापनीतवचनम्-कश्चिद् गुणः प्रशस्यः कश्विन्निन्द्यो, यथा रुपवतीय स्त्री कि स्वसवृत्तेति अपनीतोपनीतवचनम्-अरूपवती स्त्री किं तु सद्वृत्तेति, अतीतवचनम्- कृतवान्, वर्तमानवचनम्- करोति, अनागतवचनम्करिष्यति, प्रत्यक्षवचनम्- एष देवदत्तः, परोक्षवचनम्- स देवदत्तः / इत्येतानि षोडश वचनानि अमीषा स भिक्षुरेकार्थविवक्षायामेकवचनमेव याद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयात्, इति / तथा स्त्र्यादिके दृष्ट सति स्त्र्येवैषा पुरुषो वा नपुसकं वा, एवमेवैतदन्यद्वैतत, एवम् अनुविचिन्त्य निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषा भाषेत, तथा इत्येतानि पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा आयतनानि दोषस्थानान्युपातिक्रम्यातिलड्घ्य भाषा भाषेत / अथ स भिक्षुर्जानीयाच्चत्वारि भाषाजातानिचतस्रो भाषाः। तद्यथा-सत्यमेकं प्रथमं भाषाजातं यथार्थम्-अवितथम्।तद्यथा-गौगरिवाश्वोऽश्व एवेति 1 एतद्विपरीता तु मृषा द्वितीया, यथा-गौरश्वोऽश्वोगौरिति शतृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किश्चिन्मृषेति, यथा-अश्वेन यान्तं देवदत्तमुष्ट्रेण यातीत्यभिदधाति 3 / चतुर्थी तु भाषा योच्यमानान सत्या, नापि मृषा, नापि सत्यामृषा आमन्त्रणाऽऽज्ञापनाऽऽदिका साऽत्राऽसत्यामृषति 4 / स्वमनीषिकापरिहारार्थमाह- (से वेमी ति) सोऽहं यदेतद् ब्रवीमि तत्सर्वैरेव तीर्थकृ द्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाविष्यते च / अपि चैतानि सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति / अत्र च वर्णाऽऽदिमत्त्वाऽऽविष्करणेन शब्दस्य मूर्त्तत्त्वमावेदितं, न ह्यमूर्तस्याऽऽकाशाऽऽदेवर्णाऽऽदयः संभवन्ति, तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति। (20) साम्प्रतं शब्दस्य कृतकत्वाऽऽविष्करणायाऽऽहजे भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जापुटिव भासा अभासा भासिज्जमाणी भासा भासा भासासमयवितिकता चणं भासिया भासा अभासा॥ स भिक्षुरेवंभूतं शब्द जानीयात्, तद्यथा- भाषाद्रव्यवर्गणानां वाग-1 योगनिस्सरणात् पूर्व प्रागभाषा भाष्यमाणैव' वागयोगेन निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति; तदनेन ताल्वोष्ठाऽऽदिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव कृतकत्वमावेदितं, मुत्पिण्डे दण्डचक्राऽऽदिनेव घटस्येति, सा वोचरितप्रध्वंसित्वाच्दानां भाषणोत्तरकालमप्यभाषेव, यथा कपालावस्थायां घटोऽधट इति, तदनेन प्रागभावप्रध्वंसाभावौ शब्दस्याऽऽवेदिताविति // इदानीं चतसृणां भाषाणामभाषणीयामाह-- से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा जा य भासा 1, जा य भासा मोसा 2, जा य भासा सच्चामोसा 3, जा य भासा असचामोसा 4, तहप्पगारं भासं सावजं सकिरियं कक्कसं कडुयं निठुरं फरुसं अण्हयकर छेदणकरि भेयणकरिं परितावणकरि उद्दवणकरि भृतोवघाइयं अभिकंख णो भासेज्जा / / स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा- सत्यां, मृषां, सत्यामृषाम, असत्यामृषाम्। तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कळशाऽदिगुणोपेता सा न वाच्या, तां च दर्शयति- सहावद्येन वर्तत इति सावद्या. तां सत्यामपि न भाषेत, तथा सह क्रियया अनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रिया तामिति, तथा कर्कशां चर्विताक्षरां, तथा कटुकां चित्तोद्वेगकारिणी, तथा निष्ठुरा हक्काप्रधानां परुषां मोद्घाटनपराम् (अलयकरि ति) काऽऽश्रवकरीम्।एवं छेदनभेदनकरीं यावदपद्रावणकरीमित्येवमादिकां भूतोपघातिनी प्राण्युपतापकारिणीमभिकाङ्गय मनसा पर्यालोच्य सत्यामपि न भाषेतेति। भाषणीयां त्वाहजे भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा जा य भासा सच्चा सुहुमा, जा य भासा असच्चामोसा, तहप्पगारं भासं असावजं० जाव अभूतोवघाइयं अभिकंख भासं भासेज्जा / / (सूत्रम्- 133) स भिक्षुया पुनरेव जानीयात्, तद्यथा- या च भाषा सत्या सूक्ष्मेति कुशाग्रीयया बुद्धया पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शन लुब्धकाऽऽदेरपलाप इति ! उक्तञ्च- "अलियं न भासियव्वं, अस्थि हु सद्यं पि जं न वत्तव्यं / सच्चं पि होइ अलियं, जं परपीडाकर वयणं / / 1 / / " या चासत्यामृषा आमन्त्रणी आज्ञापनाऽदिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावद् भूतोपघातिनीं मनसा पूर्वम् अधिकाक्ष्य पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति // 133 / / किञ्चसे मिक्खू वा भिक्खुणी वा पुमं आमंतेमाणे आमंतिते वा अपडिसुणेमाणे णो एवं वदेज्जा-होलेति वा गोलेति वा वसुलेति वा कुपक्खेति वा घटदासेति वा साणेति वा तेणेति वा चारिएत्ति वा माईति वा मुसावादीति वा, इयाई तुमंते जणगावा, एतप्पगारं भासं सावज्जं सकिरियं०जाव भूओवधाइ अभिकंख णो भासेज्जा॥ स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वा अशृण्वन्तं नैवं भाषेत, तद्यथाहोल इति वा गोल इतिवा एतौ च देशान्तरे अवज्ञासमूचकौ, तया वसुलेति वृषलः कुपक्षः कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानि अनन्तरोक्तानि त्वमसि तव जनको वा मातापितरावेतानीति, एवं प्रकारां भाषा यावन्न भापेतेति।

Loading...

Page Navigation
1 ... 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636