Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1541 - अभिधानराजेन्द्रः - भाग 5 भासा षड्दिशि च / एवमुक्ते भगवानाह- गौतम ! नियमात् षड्दिशि गृह्णातिषड्भ्यो दिग्भ्य आगतानि गृह्णाति, भाषको हि नियमात् त्रसनाड्यामन्यत्र सकायासम्भवात्, सनाड्यां च व्यवस्थितस्य नियमात्षदिगागतपुद्गलसम्भवात्। एतेषामेवार्थानां सङ्ग्रह णिगाथामाह- 'पुट्ठोगाढअणंतरं।' इत्यादि प्रथमतः स्पृष्टविषयं सूत्र, तदनन्तरमवगाढसूत्रम्, ततोऽनन्तरावगाढसूत्रम्, ततोऽणुबादरविषयं सूत्रम्, तदनन्तरमूधिःप्रभृतिविषय सूत्र, तत 'आई' इति / उपलक्षणमेतत् आदिमध्यावसानसूत्रं, ततो विषयसूत्र, तदनन्तरमानुपूर्वीसूत्र, ततो नियमात् षड्दिशीतिसूत्रम् / (168) 'जीवाणं भंते ! जाई दव्वाई' इत्यादि। जीवो 'ण' मिति वाक्यालङ्कारे, भदन्त ! यानि द्रव्याणि भाषात्वेन गृह्णाति तानि किं सान्तर-- सव्यवधानं गृह्णाति, किं वा निरन्तर निर्व्यवधानम् ? भगवानाहसान्तरमपि गृह्णाति, निरन्तरमपि / उभयथाऽपि ग्रहणसम्भवात् / तत्र सान्तरनिरन्तरग्रहणयोः प्रत्येक कालमानं प्रतिपादयति- 'संतर गिण्हमाणे' इत्यादि / सान्तरं गृह्णन् जघन्यत एक समयमन्तर कृत्वा गृण्हाति, एतच जघन्यत एक समयमन्तरं सततं भाषाप्रवृत्तस्य भाषमाणस्यावसेयम् / तचैवम्- कश्चिदेकस्मिन् समये भाषापुद्गलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वापुनस्तृतीये समये गृह्णात्येव, न मुञ्चति, द्वितीये समये प्रथमसमयगृहीतान पुद्गलान् मुञ्चति, अन्यानादत्ते, अथान्येन प्रयत्नविशेषेण ग्रहणमन्येन च प्रयत्नविशेषेण च निसर्गः, तौ च परस्पर विरुद्धौ, परस्पराविरुद्धकार्यकरणात, ततः कथमेकस्मिन् समये तौ स्याता? तदयुक्तं, जीवस्य हि तथास्वाभाव्यात द्वावुपयोगावेकस्मिन् समये न स्याता, येतु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात् / तथाहि- एकाऽपि नर्तकी भ्रमणाऽऽदि नृत्तं विदधाना एकस्मिन्नपि समये हस्तपादाऽऽदिगता विचित्राः क्रियाः कुर्वती दृश्यते,सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययावुपजायेते.एकस्मिन्नेव च समये सघातपरिशाटावपि, ततो न कश्चिद्दोषः। आह च भाष्यकृत्- "गहणनिसम्गपयत्ता, परोप्परविरोहिणो कह समये ? समए दो उवओगा, न होज किरियाण को दोसो ? // 1 // " इति / तृतीये पुनःसमये तानेव द्वितीयसमयोपात्तान् पुद्गलान् मुथति, न पुनरन्यानादत्ते, उक्तरेण त्वसङ्ख्येयान् थावन्निरन्तर गृह्णाति / तथा चाऽऽह- उत्कर्षेणासङ्ख्येयान् समयान् गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येयैःसमयैरेकं ग्रहणं मन्येत, तत आह'अनुसमय' प्रतिसमयं गृह्णाति। तदपि कदाचिद्विरहितमपि व्यवहारतोऽऽनुसमयमित्युच्येत, ततस्तदाशड्क्य व्यवच्छेदार्थमाह- अविरहितम्, एवं निरन्तरं गृह्णाति, तत्राऽऽद्ये समये ग्रहणमेव, न निसर्गः, अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये चमोक्ष एव, भाषाऽभिप्रायोपर-- मतो ग्रहणासम्भवात् शेषेषु द्वितीयाऽऽदिषु समयेषु ग्रहणनिसर्गों युगपत्करोति। 'जीवा णं भंते ! जाइं दवाई भासत्ताए गहियाई निसरइ' इत्यादि प्रश्नसूत्रसुगमम्, निर्वचनमाह- सान्तरं निसृजति, नो निरन्तरम्, इयमत्र भावना- इह तावत् ग्रहण निरन्तरमुक्त, तथा चानन्तरसूत्रम् 'अणुसमयमविरहिय निरंतर गेण्हइ' इति. ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमये निसर्गात् / ततो यदुक्तम्- 'सान्तरं निसृजति नो निरन्तरमिति'. तत्र ग्रहणापेक्षया दृष्टव्यम्। तथाहि-यस्मिन् समये यानि भाषाद्रव्याणि गृह्णाति नतानि तस्मिन्नेव समये मुञ्चति, यथा प्रथमसमये गृहीतानि न तस्मिन्नेव प्रथमसमये मुशति, किन्तु पूर्वस्मिन् 2 समये गृहीतानि उत्तरस्मिन् 2 समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतस्य निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भाष्यकृत"अणुसमयमणंतरिय, गहणं भणियं ततो विमोक्खोऽवि। जुत्तो निरन्तरो वि य, भणइ कहं संतरो भणिओ ?||1|| गहणावेक्खाऐं तओ, निरंतरं जम्मि जाइँ गहियाई। न उ तम्मि चेव निसरइ, जइ पढमे निसिरणं नत्थि।।२।। निसिरिजइ नागहियं, गहणतरिय ति संतर तेण।" इति। एतदेव सूत्रकृदपि स्पष्टयति- 'संतरं निसरमाणोएगेणं समएणं गेण्हइ.एगेण समएणं निसरइ' इति। एकेन-पूर्वपूर्वरूपेण समयेन गृह्णाति, एकेन-उत्तरोत्तररूपेण समयेन निसृजति। अथवा- ग्रहणापेक्ष निसर्गा-भावात् एकेन आद्ये न समयेन गृह्णात्येव न निसृजत्यगृहीतस्य निसर्गाभावात्, तथा एकेनपर्यवसानसमयेन निसृजत्येव, न गृह्णाति, भाषाऽभिप्रायोपरमतो ग्रहणासम्भवात, शेषेषु तु द्वितीयाऽऽदिषु समयेषु युगपद् ग्रहणनिसर्गा करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ, उत्कर्षतोऽसङ्ख्येयान समयान् / एतदेवाऽऽह- 'एतेणं गहणनिसरणोबाएणं जहण्णेणं दुसमइयं, उकोसेणं असंखेजसमइयं अंतोमुहुर्त गहणणिसिरणं करेइ' इति / 'जीवे णं जाई दव्वाई' इत्यादि प्रश्रसूत्रं सुगम' भगवानाह– गौतम ! भिन्नान्यपि निसृजति, अभिन्नान्यपि / इयमत्र भावना-इह द्विविधो-वक्तामन्दप्रयत्नस्तीव्रप्रयत्नश्च / तत्र यो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाद्रव्याणि तथाभूतान्येव स्थूलखण्डाऽऽत्मकानि निसृजति, यस्तु नीरोगताऽऽदिगुणयुक्तस्तथाविधाऽऽदरभावतस्तीव्रप्रयत्नः स भाषाद्रव्याणि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निसृजति। आह च भाष्यकृत्- 'कोई मंदपयत्तो, निसिरइ सकलाई सव्वदव्वाई। अन्नो तिटवपयत्तो, सो मुंइ भिंदिउताई॥१॥" तत उक्तम्'भिन्नाई पि निसिरइ, अभिन्नाइं पि निसिरइ, जाई भिन्नाई निसिरइ' इत्यादि। यानि तीव्रप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वात् बहुत्वाच्च प्रभूतान्यन्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यवासकत्वादेय चानन्तगुणवृझ्या परिवर्द्धमानानि षट्सु दिक्षु लोकान्तं स्पृशन्ति, लोकान्तं प्राप्नुवन्तीत्यर्थः / उक्तं च-"भिन्नाइँ सुहमयाए, अणंतगुणवड्डियाइँ लोगंतं / पार्वति पूरयति य, भासाऍ निरंतरं लोगं // 1 // " यानि पुनर्मन्दप्रयत्नो वक्ता यथाभूतान्येव प्राक् भाषाद्रप्याण्याण्यासीरन् तथाभूतान्येव सकलान्यभिन्नानि भाषात्वेन परिणमय्य निसृजति, तान्यसंख्येया अवगाहनावर्गणा गत्वा, अवगाहनाःएकैकस्य भाषाद्रव्यस्याऽऽधारभूता असंख्येयप्रदेशाऽऽत्मकक्षेत्रविभागरूपास्तासामवगाहनानां वर्गणाः-समुदायास्ता असंख्येया अतिक्रम्य

Page Navigation
1 ... 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636