Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1545
________________ भासा 1537 - अभिधानराजेन्द्रः - भाग 5 भासा षात्वं प्रतिपद्येत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात्, ततश्च ''भासिज्जमाणा भासा" इत्यागप्रविरोधः स्यात; तर्हि मोक्षग्रहणमपनीय ततस्थाने भाषैव चोपादीयता, भाषामोक्षयोरेकार्थत्वादिति चेत् / सत्य, किं तु निसर्गस्य कालमानं नोक्तम्, इति मन्दधीः प्रतिपद्योत, इति तदनुग्रहार्थमिह मोक्ष भाषयोः पृथग्रहणम् / इत्यलं विस्तरेण / इति ग्रहणं, मोक्षों, भाषा इत्येतानि त्रीणि, तथा ग्रहणनिसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्त्तमात्रं कालं भवन्ति, परतो योगान्तरमुपगच्छति, मियते वा इति भावः / एतेषां च ग्रहणाऽऽदीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवतीति महाप्रयत्नस्य तदेवान्तर्मुहूर्त लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत् प्रमाणं भवतीति / / 371 / / 372 / / तदत्र प्रथमसमये यक्तेवलं ग्रहणमेव, पर्यन्तवर्त्तिनितुसमये यः केवलो निसर्गः पूर्वमुक्तः, स भवतु, मध्यमसमयेषु तु यौ ग्रहणनिसर्गा, तयोरयुक्तत्वमुत्पश्यन्नाह- पर:गहणविसग्गपयत्ता, परोप्परविरोहिणो कहं समए? समए दो उवओगा, न होञ्ज किरियाण को दोसो?।३७३३ निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावत् ग्रहणविसर्गप्रयत्नौ प्रतिसमयं युगपदापततः। एतौ च परस्परविरोधिनी कथमेकरिमन्समये युक्तौ? नैव युक्तावित्यर्थः। अत्रोच्यते-ग्रहणविसगयोर्विरोध एवात्र तावदसिद्धः। यदि हि येषामेव द्रव्याणां ग्रहणम्, तेषामेव तस्मिन्नेव ग्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, प्राक समयगृहीतानामेवाग्रेतनसमये निसर्गात्, तत्र चाऽपूर्वाणामेव ग्रहणाद् / अथाविरोध्यपि युगपदेकत्र समये उपयोगद्वयवत् क्रियाद्वय नेष्यते / तदाह- "समये दो" इत्यादि। एकस्मिन् समये द्वौ उपयोगौ न भवेतामिति युक्तम् / "जुगवं दो नत्थि उवओगा" इति वचनात् तयो रागभे निषेधात्। क्रियाणां बहीनामप्येकस्मिन् समये को दोषः? न कश्चिदित्यर्थः / तथा हि आगमे- 'भगियसुयं गणतो,वट्टइ तिविहे वि झाणम्मि / ' इत्यादिवचनात् वामनःकाय क्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव। तथाऽङ्गुल्यादिसंयोगविभागक्रिययोः, सङ्घातपरिशाटक्रिययोः, उत्पादव्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञाविहितैवेति को दोषः? तथा वामहस्तेन घण्टिकां चलयति, दक्षिणेन धूपमुद्ग्राहयति, दृशा तीर्थकरप्रतिमाऽऽदिवदनं वीक्षते, मुखेन वृत्तं पठति, इत्यादि बहीनामपि क्रियाणां युगपत् प्रवृत्तिरध्यक्षतोऽपि वीक्ष्यते। इति गाथानवकार्थः / / 373 // (12) "गृह्णाति कायिकेन" इत्युक्तं, तत्र यद्यप्यौदारिकाऽऽदिशरीरपञ्चकभेदाक्तायः पञ्चविधः, तथाऽपि त्रिविधेनैव कायेन वागद्रव्यग्रहणमवसेयम्, इति दर्शयन्नाहतिविहम्मि सरीरम्मी, जीवपएसा हवंति जीवस्स। जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं // 37 // औदारिकाऽऽदिशरीराणां मध्यात्त्रिविधे त्रिप्रकारे शरीरे जीव- / स्याऽऽत्मनः प्रदेशा जीवप्रदेशा भवन्ति, नान्यत्र / एता वति चोच्यमाने "भिक्षोः पात्रम्' इत्यादौ षष्ठ्या भेदेऽपि दर्शनान्मा भूज्जीवात्प्रदेशाना भेदसंप्रत्यय इत्यत आह-जीवस्येति, त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, नतु भेदिन इत्यर्थः। तदनेन निष्प्रदेशाऽऽत्मवादनिराकरणमाह- निष्प्रदेशत्वस्य युक्त्यऽनुपपत्तेः / तथाहिपादतलसंबद्धाना जीवप्रदेशानां शिरः संबद्धजीवदेशैः सह भेदोऽभेदो वा? इति वक्तव्यम् / यदि भेदस्तर्हि कथं न स प्रदेशो जीवः? अथाभेदस्तर्हि सर्वेषामपि शरीरावयचानामेकत्वप्रसङ्गः, अभिन्नैर्जीवप्रदेशैः संबन्धेनैकत्र क्रोडीकृतत्वादित्यादि तर्कशास्त्रेभ्योऽनुसरणीयम्।यैर्जीवप्रदेशः किं करोति? इत्याह- यैस्तु गृह्णाति / तुशब्दो विशेषणार्थः / किं विशिनष्टि? न सर्वदेव गृह्णाति, किं तु भाषणाभिप्रायाऽऽदिसामग्रीपरिणामे सति / किं पुनर्गृह्णाति? इत्याह- गृह्यत इति कर्मणि ल्यट्प्रत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः। ततो भषिको भाषां भाषते, न त्वभाषकोऽपर्याप्तावस्थायाम, इच्छाऽऽद्यभावतो वेति। 'भाषको भाषते' इत्यनेनैव गतार्थत्वात् “भाष्यमाणैव भाषा, न पूर्वं नापि पश्चाद्" इति ज्ञापनार्थमेव भाषाग्रहणमिति // 371 / / 374 / / आह-ननुकतमत्तत्त्रिविधं शरीरं,यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते? इत्याह ओरालियवेउव्वियआहारओ गिण्हइ मुयइ भासं। सचं सच्चामोसं, मोसंच असच्चमोसं च / / 375 / / इहौदारिकशब्देन शरीरतद्वतोरभेदोपचारात्, मत्वर्थीयलोपाद्वा औदारिकशरीरवान जीव एव गृह्यते, एवं वैक्रियवान् वैक्रियः, आहारकवानाहारकः / तदयमेवौदारिकवैक्रियाऽऽहारकशरीरी जीवो गृह्णाति, मुञ्चति च भाषां पुद्गलसंहतिरूपाम्, भाषां कथंभूताम्? इत्याह- सत्यां, सत्यामृषाम, मृषां च, असत्यमृषां च / इति नियुक्तिगाथाद्वयार्थः / / 375 / / अत्र विषमपदव्याख्यानाय भाष्यम् - सच्चा हिया सयामिह, संतो मुणओ गुणा पयत्था वा। तव्विवरीया मोसा, मीसा जा तदुभयसहावा / / 376|| अणहिगया जा तीसु वि, सहो चिय केवलो असचमुसा। एया सभेयलक्खणसोदाहरणा जहा सुत्ते / / 377 / / इह सद्भ्यो हिता आराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा प्रोच्यते। तत्र के सन्त उच्यन्ते येषां सा हिता? इत्याह- सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिताइहपरलोकाऽऽराधकत्वेन मुक्तिप्रापिकेत्यर्थः / अथवा-सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवाऽऽदयः प्रोच्यन्ते, तेभ्योऽसौ हिता-अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या, विपरीतस्वरूपा तु मृषा भाषा अभिधीयते; मिश्रा तु सत्यामृषा / का? इत्याह-या तदुभयस्वभावा सत्यामृषाऽऽत्मिकेति। या पुनः सत्यामृषोभयाऽऽत्मकासु उक्तलक्षणासुतिसृष्वपि भाषास्वऽनधिकृता तल्लक्षणानन्तर्भाविनी, आमन्त्रणाऽऽज्ञापनाऽऽदिविषयो व्यवहारपतितः शब्द एव केवलः, सा असत्यमृषा चतुर्थी भाषा / एताश्चतसोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकसूत्रनियुक्त्यादिकसूत्र आगमे भणित स्तथा तत्रैव बोद्धव्याः। इह तु भाषाद्रव्यग्रहणनिसर्गाऽऽदिविचारस्यैव प्रस्तुतत्वादिति गाथाद्वयार्थः / / 376 / / 377 //

Loading...

Page Navigation
1 ... 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636