Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भरह 1451 - अभिधानराजेन्द्रः - भाग 5 भरह तिते सङ्कट किं कर्तव्यमिति चिन्तयन्तीति, अथ प्रस्तूयमानं भरतस्य चरितमाह- 'तएण' इत्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्नादेशितमार्गो यावत् समुद्ररवभूतामिव गुहां कुर्वन् 2 तमित्रागुहातः औत्तराहेण द्वारेण निरतिनिर्याति शशीव मेघान्धकारनिवहात्। 'तएण' इत्यादि, ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीकं सैन्याग्रभागम्- 'एज्जमाणं ति' इयत् आगच्छत् पश्यन्ति, दृष्ट्वा च 'आसुरुत्ता' इत्यादि पदपञ्चकं प्राग्वत् अन्योऽन्य शब्दयन्ति, शब्दयित्वा चैवमवादिषुरिति। किमवादिषुरित्याह- 'तएणं' इत्यादि, एष देवानुप्रियाः! कश्चिदज्ञातनामकोऽप्रार्थितप्रार्थकाऽऽदिविशेषणविशिष्टो वर्तते योऽस्माकं विषयस्यदेशस्योपरि वीर्येणाऽऽत्मशक्त्या 'हव्वं ति' शीघ्रमागच्छति, तत्तस्मात्तथा 'णमिति' - इमं भरतराजानमित्यर्थः 'धत्तामो त्ति' क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्तमानानिर्देशः प्राकृतत्वात्, एतस्मिन् समये किं जातमित्याह- 'इति कटु' इत्यादि, इति- अनन्तरोदितं कृत्वाविचिन्त्यान्योऽन्यस्यान्तिके एतमर्थ प्रतिशृण्वन्ति- ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्धबद्धत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति. उपागत्य च भरतस्य राज्ञोऽग्रानीकेन साधू संप्रलग्नाश्वाप्यभूवन / योद्धमिति शेषः, युद्धाय प्रवृत्ता इत्यर्थः, अथ ते कि कुर्वन्तीत्याह-'तएणं ते आवाडचिलाया' इत्यादि,ततो युद्धप्रवृत्त्यनन्तरं ते आपातकिराता भरतस्य राज्ञोऽग्रानीकं हताः केचन प्राणत्याजनेन मथिताः केचन मानमथनेन घातिताश्च केचन प्रहारदानेन प्रवरवीराःप्रधानयोधा यत्र तत्तथा, पदव्यत्ययः प्राकृतत्वात्, विपतिताःस्वस्थानतो भ्रष्टाश्चितप्रधानाध्वजा गरुडध्वजाऽऽदयः पताकाश्चतदितरध्वजा यत्र तत्तथा, ततः पदद्वयस्य कर्मधारयः, कृच्छ्रणमहता कष्टन प्राणान् उपगतंप्राप्त कथमपि धृतप्राणमिति यावत्, दिशः सकाशादपरदिशिस्वाभिमतदिक्त्याजनेनापरस्यां दिशि प्रक्षिप्य इति शेषः, प्रतिषेधयन्ति-युद्धान्निवर्तयन्तीत्यर्थः / इतो भरतसैन्ये किं जातमित्याहतए णं से सेणाबलस्स णेआ वेढो०जाव भरहस्स रण्णो अग्गाणीअं आवाडचिलाएहिं हयमहियपवरवीर० जाव दिसो दिसं पडिसेहिअंपासइ, पासित्ता आसुरुते रुढे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ, दुरूहित्ता (जं०) (अश्वरत्न वक्तव्यता 'आसरयण' शब्दे द्वितीयभागे 473 पृष्ठे गता) सुगपत्तसुवण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुवलयदलसामलं च रयणिकरमंडलनिभं सत्तुजणविणासणं क णगरयणदंडं णवमालिअपुप्फ सुरहिगंधिं णाणामणिलयभत्तिचित्तं च पहोतमिसिमिसिंततिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगट्टिदंतकालायस-विपुललोहदंडकवरवइरभेदकं० जाव सव्वत्थ अप्पडिहयं किं पुण देहेसु जंगमाणं- "पण्णासंगुलदीहो, सोलस से अंगुलाई वित्थिण्णो। अद्धंगुलसोणीको, जेट्टपमाणो असीभणिओ||१॥" असिरयणं णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ, उवागच्छित्ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था / तए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहिअपवरवीरघाइअ० जाव दिसो दिसिंपडिसेहेइ। (सूत्र-५७) 'तरण' इत्यादि, ततः - स्वसैन्यप्रतिषेधनादनन्तरं सेनाबलस्यसेनारूपस्य बलस्य नेतास्वामी वेष्टकः-वस्तुविषयवर्णकोऽत्र सेनानीसत्कः संपूर्णः पूर्वोक्तो ग्राह्यः यावद् भरतस्य राज्ञोऽग्रानीकम् आपातकिरातैर्यावत्प्रतिषेधितं पश्यति, दृष्ट्वा च आशुरुप्ताऽऽदिविशेषणविशिष्टः कमलाऽऽपीडं कमला मेलं वा नामाश्वरत्नमारोहति। अथ प्रस्तावाऽऽगतं तद्वर्णन (ज०) द्वितीयभागे 473 पृष्ठे गतम्।) कमलामेल णामेणं' इत्यादि, प्राग्वद् व्याख्येयमिति।' ततः स किं कृतवानित्याह- 'कुवलय' इत्यादि, तदसिरत्नं नरपतेर्हस्ताद गृहीत्वा स सेनानीर्यत्रैवाऽऽपातकिरातास्तत्रैवोपागच्छति, उपागत्य चाऽऽपातकिरातैः सार्द्ध सम्प्रलग्नश्चाप्यभूद्योगुमिति शेषः, तच्छन्दवाक्यं यच्छब्दवाक्यमपेक्षत इत्याहियते यदिति, यत् किंविशिष्टमित्याह- कुवलयदलश्यामल नीलोत्पलदलसदृशमित्यर्थः, चः समुच्चये, रजनिकरमण्डल चन्द्रबिम्ब तस्य निभंसदृशं परिभ्राम्यमाणं यद्वर्तुलिततेजस्कत्वेन चन्द्रमण्डलाऽऽकारं दृश्यते इत्यर्थः, अथवा-रजनिकरमण्डलनिभं मुखे इति शेषः, शत्रुजनविनाशनं, कनकरत्नमयो दण्डोहस्तग्रहणयोग्यो मुष्टियस्य तत्तथा, नवमालिकानामकं यत्पुष्पं तद्वत् सुरभिगन्धो यस्य तत्तथा, नानामणिमय्यो लता बल्ल्याकारचित्राणि तासां भक्तयोविविधरचनास्ताभिश्चित्रम्-आश्चर्यकृत, चः विशेषणसमुच्चये, प्रधौता शाणोत्तारेण निष्किट्टीकृता अत एव- 'मिसिमिसेंति त्ति' दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, दिव्यं खड्गरत्नखड्गजातिप्रधानं लोकेऽनुपमानम् अनन्यसदृशत्वात्, तच पुनर्वहुगुणमस्तीति शेषः, कीदृशं ? वंशा वेणवः रूक्षाः-वृक्षाः शृङ्गाणि महिषाऽऽदीनाम् अस्थीनि प्रतीतानि दन्ता हस्त्यादीनां कालायसं लोह विपुललोहदण्डकश्चवरवज्रं हरिक-जातीय तेषां भेदकम्, अत्र वज्रकथनेन दुर्भद्यानामपि भेदकत्वं कथितं, किं यहुना? यावत्सर्वत्राप्रतिहतं, दुर्भेदेऽपि वस्तुनि अमोघशक्तिकमित्यर्थः, किं पुनर्जङ्गमानाचराणां पशुमनुष्याऽऽदीनां देहेषु, अत्र यावच्छब्दो न संग्राहकः किन्तु भेदकशक्तिप्रकर्षाक्तयेऽवधिवचनः अथ तस्य मानमाहपञ्चाशदगुलानि दी? यः षोडशाङ्गुलानि विस्तीर्णः अर्धागुलप्रमाणा श्रोणि:- बाहुल्य पिण्डो यस्य स तथा, ज्येष्ठम्-उत्कृष्ट प्रमाणं यस्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेत्रिंशदङ्गुलप्रमाणत्वं

Page Navigation
1 ... 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636