Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1465
________________ भरह 1457 - अभिधानराजेन्द्रः - भाग 5 भरह गं' इत्यादि, ततश्च उक्तचिन्तासमुत्पत्यनन्तरं भरतस्य ममेतादृशं यावत्सङ्कल्पं समुत्पन्न ज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेवसहस्राणि चतुर्दश द्वे सहस्र स्वाङ्गाधिष्ठातृदेवभूते इत्येवं षोडशदेवसहस्राः यद्यपि स्त्रीरत्नस्य वैताठ्यसाधने सम्पत्स्यमानत्वेन रत्नाना त्रयोदशसहस्रा एव सम्भवेयुस्तथापि सामान्यत एतद्वचनमिति सन्नद्रुप्रवृत्ताश्चाप्यभवन्-युद्धायोद्यता अभूवन्नित्यर्थः, कथमित्याह-'तएण' इत्यादि, अनुवादसूत्रत्वात्प्राग्वत्, किमवोचुस्ते भरतस्य सन्निहिता देवा इत्याह- हे भो ! मेघमुखा-इत्यादि प्राग्वत्, किमिति प्रश्ने न जानीथेत्यत्र काकुपाठेन व्याख्येयं, तेन न जानीथ किं यूयम्? अपि तु जानीथ, भरतं राजानं चतुरनन्तचक्रवर्त्तिनं यदेष न कश्चिदपि देवदानवाऽऽदिभिः शस्त्रप्रयोगाऽऽदिभिरुपद्रवयितुंवा प्रतिषेधयितुं वा शक्यते इति, अज्ञानपूर्विका हि प्रवृत्ति-महतेऽनाय प्रवर्तकस्य च बाढं बालिशभावोद्भावनाय च भवे-दिति भापयन्तस्ते यथा उत्तरवाक्यमाहुस्तथाऽऽह- तथापि- जागत्यजय्यं जानन्तोऽपीत्यर्थः, यूयं भरतस्य राज्ञो विजयस्कन्धावारस्योपरि यावर्ष वर्षत तत्तस्मादेवमविमृष्टकारितायां सत्यामपि गते अतीते कार्य किं बहु अधिक्षिपामः? तस्य क्रियाऽऽन्तराऽऽपादनेन संस्कारानहत्वात् इतः क्षिप्रमे-- वापक्रामतः-मत्कुणा इवापयातः, अथवेति विकल्पान्तरे यदि नापक्रामत तर्हि अद्यसाम्प्रतमेव पश्यत चित्रंजीवलोकवर्तमानभवादन्यं भवं पृथिवीकायिकाऽऽदिकम, अपमृत्युप्राप्नुत्तेत्यर्थः, क्रियादेशेऽत्र पक्षमीप्रयोगः, ननु निरुपक्रमायुऽऽषा देवानामपमृत्योरसम्भवात् सबाधमिदं वचनम्, उच्यते- सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दोषः। 'तए णं' इत्यादि, सर्वं प्राग्वत्, नवरं मेघानीकं प्रतिसंहरन्ति-धनघटामपहरन्ति, वृष्टयुपरमेचततः सम्पुटाचक्रिसैन्यं निर्गच्छदुपलभ्य लोकिकैरुक्तं ब्रह्मणा सृष्टमिदमण्डक तत इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपिच ब्रह्माण्ड-पुराणं नाम शास्त्रमभूदिति प्रसङ्गारोध्यमिति / अथ यदुक्तम् ‘एवं वयासित्ति' तत्र किमवादिषुरित्याह- 'तएणं' इत्यादि, हे देवानुप्रिया! एष भरतो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवाऽऽदिभिरस्व प्रयोगाऽऽदिभिर्यावन्निषेधयितुं तथाऽपिअस्माभिर्देवानुप्रिया ! युष्माकं प्रीत्यर्थ भरतस्य राज्ञ उपसर्गः कृतः, तद्गच्छत देवानुप्रिया यूयं स्नाना- | ऽऽदिविशेषणाः आगे - सद्यः स्नानवशाज्जलक्लिन्नौ पटश टकौउत्तरीयपरिधाने येषां ते तथा एतेन सेवाविधादविलम्बः सूचितः, अवचूलकम् अधोमुखाञ्चलं मुत्कलाञ्चलं यथा भवत्येवं नियत्थं येषां ते तथा, एतेन परिहितवस्त्रबन्धनकालावध्यपि न विलम्बो विधेय इति सूचितम्, अथवाऽनेनाबद्धकच्छत्वं सूचितं, तदुपदर्शनेन स्वदैन्यं दर्शितमिति, बद्धकच्छत्वदर्शन हि उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात्, अग्याणि वराणि रत्नानि गृहीत्वा प्राञ्जलिकृताः- कृतप्राञ्जलयः पादपतिताःचरणन्यस्तमौलयो भरतं राजाने शरणमुपेतयात प्रणिपतितवत्सलाःप्रणम्रजनहितकारिणः खलु उत्तमपुरुषाः, नास्ति (भे) भवतां भरतस्य राज्ञोऽन्तिकाद्भयमिति कृत्वा इति उदित्वेत्यर्थः, यस्या दिशः प्रादुर्भूता- | स्तामेव दिशं प्रति गता इति। अथ भग्नेच्छाम्लेच्छा यच्चकुस्तदाह- 'तए | ' इत्यादि, सर्व गतार्थ, नवरं रत्नान्युपनयन्ति-प्राभृतीकुर्वन्तीत्यर्थः, अथ यदुक्तम्- ‘एवं वयासि त्ति।' तत्र किमवादिषुरित्याह- 'वसुहर' इत्यादि, हे वसुधर ! द्रव्यधर षट्खण्डवर्तिद्रव्यपते इति यावत्, अथवा तेजोधर गुणधरगुणवान् जयधरविद्वेषिभिरधर्षणीय ! ही:- लज्जा श्रीःलक्ष्मीधृतिः- सन्तोषः कीर्त्तिः-वर्णवादः, एतेषां धारक नरेन्द्रलक्षणसहखाणाम, अनेकलक्षणानां धारक (णो) अस्माकं राज्यमिदं चिरं धारयः पालय इत्यर्थः, अस्माद्देशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थः // 1 // 'हयवइ गयवई इत्यादि, हे हयपते ! गजपते ! हे नरपते ! नवनिधिपते ! हे भरतवर्षप्रथमपते! द्वात्रिंशज्जनपदसहस्राणां-देशसहस्राणां ये राजानस्तेषां स्वामिन् ! चिरंजीव चिरंजीव इति द्वितीयगाथार्थः 12 पढमणरीसर ईसर' इत्यादि, हे प्रथमनरेश्वर ! हे ऐश्वर्यधर ! हे महिलिकासहस्राणां-चतुःषष्टिस्त्रीसहस्राणां हृदयेश्वर-प्राणवल्लभ देवशतसहस्राणां-रत्नाधिष्ठातृमागधतीर्थाधिपाऽऽदिदेव-लक्षणमीश्वर ! चतुर्दशरत्नेश्वर ! यशस्विन् इति तृतीयगाथार्थः / / 3 / / तथा 'सागर' इत्यादि, सागरः पूर्वापरदक्षिणाऽऽख्यः समुद्रः गिरिः- क्षुद्रहिमाचलस्तयोमर्यादा-अवधिर्यत्र तत्तथा, उक्तदि-त्रये समुद्रावधिकमुत्तरतो हिमाचलावधिकम्, उत्तरापावीनम्- उत्तरार्द्धदक्षिणार्द्धभरतं परिपूर्णभरतमित्यर्थः, त्वयाऽभिजित, यदत्र भरतस्य हिमवगिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन भाविनि भूतवदुपचारः' इति न्यायात्, अन्यथा नवनिधिपते ! चतुर्दशरत्नेश्वर इत्यादिविशेषणानामप्यनुपपत्तिः, नवनिधीनां तथा सम्पूर्णचर्तुदशरत्नानामथैव सम्पत्स्यमानत्वात्, (ता)-तस्माद्वयं देवानुप्रियस्य विषये परिवसामः, युष्माकं प्रजारूपाः स्म इत्यर्थः, इति चतुर्थगाथाऽर्थः // 4|| तथा अहो इति आश्चर्ये, देवानुप्रियाणाम् ऋद्धिषुतिर्यशो बल वीर्यं पुरुषकारः पराक्रम एतेषां व्याख्यान प्राग्वत्, ऋझ्यादीन्याश्चर्यकारीणि कृत इत्याहदिव्यासर्वोत्कृष्टा देवस्येव द्युतिः,एवं दिव्यो देवानुभावो देवानुभागो वा लब्धः - प्राप्तः अभिसमन्वागतो देवपादरित्यध्याहार्य, परतः श्रुतेऽपि गुणातिशये आश्चर्योत्पत्तिः स्यात्, दृष्ट तु सुतरामित्याशयेनाऽऽह- तद् दृष्टा देवानुप्रियाणां ऋद्धिः-सम्पत् / चक्षुः- प्रत्यक्षेणानुभूतेत्यर्थः, श्रवणतो दर्शनस्यातिसंवादकत्वात्. एवं चैवेति उक्त-यायेन दृष्टा देवानुप्रियाणां द्युतिः, एवं यशोबलाऽऽदिकमपि दृष्टमित्यादि वाच्यं, यावदभिसमन्वागत इति पदं, यावत्पदसंग्रहस्तु- 'इड्डी जसे बले वीरिए' इत्यादिकोऽनन्तरोक्त एव, तत्क्षमयामो देवानुप्रिया वयं, सानुशयाऽऽशयत्वात् स्वबालचेष्टितं क्षमन्तां देवानुप्रियाः ! क्षन्तुमर्हन्तिक्षमा कर्तु योग्या भवन्ति देवानुप्रियाः महाशयत्वात्, प्राकृतत्वाद्वर्तमानार्थे पञ्चमी, 'णाइ त्ति' नैव 'आई' इति निपातोऽवधारणे भूय एवंकरणतायै सम्पत्स्यामह इति शेषः, अत्र ताकारः प्राकृतशैलीभवः, इति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजाने शरणमुपयान्ति, अथ प्रसादाभिमुखभरतकृत्यमाह- "तए णं से भरहे राया तेसिं आवाडचिलायाण' इत्यादि, ततः स भरतो राजा तेषामापातकिरातानामग्याणि वराणि रत्ना

Loading...

Page Navigation
1 ... 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636