Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1490
________________ भवणवइ 1452- अभिधानराजेन्द्रः - भाग 5 भवत्थकेवलनाण कुमाराणां द्विसप्ततिलक्षाः,वायुकुमाराणा षण्णवतिर्लक्षाः, द्वीपकुमारदिकुमारोदधिकुमारविद्युत्कुमारस्तनितकुमाराग्निकुमाराणां षण्णामपि दक्षिणोत्तरदिगवर्तिलक्षणयुग्मरूपाणां प्रत्येक षड् सततिः षट्सप्ततिर्लक्षा भवन्ति भवनानाम् / एषां च सर्वेषामप्येकत्र मीलने प्रागुक्ताः सङ्क्या भवन्ति / प्रव० 165 द्वार। उक्तंचजोअणसहस्समेगं, ओगाहित्तूणा भवणनगराई। रयणप्पभाइ सव्वे, इक्कारस जोअणसहस्सा // 32 // अंतो चउरंसा खलु, अहियमणोहरसभावरमणिञ्जा। बाहिरओ वि य वट्टा, निम्मलवइरामया सव्वे // 33|| उक्किन्ननगरफलिहा, अभिंतरओ भवणवासीणं / भवणनगरा विरायंति कणगसुसिक्किलिट्ठपागारा॥३४॥ वरपउमकण्णियामंहियाहिँ हिट्ठा सहावलट्टेहिं / सोहिंति पइट्ठाणेहिं विविहमणिभत्तिचित्तेहिं॥३५।। चंदणपयट्टिएहि य, आसत्तोसत्तमल्लवासेहिं। दारेहिँ पुरवरा खलु, पडागमल्लाउरा रम्मा // 36 / / अद्वेव जोयणाई, उदिवद्धा हुति ते दुवारवरा / धूमघडियाउलाई, कंवणदामोवणिद्धाणि // 37 / / जहिं देवा भवणवई, वरतरुणीगीयवाइयरवेणं / निचसुहिया पमुइया, गयंपि कालं न जाणंति। 38 / द०प०। तन्निवासिनि देवविशेषे, पुं०। आव०४ अ० भवणगिह न०(भवनगृह) कुटुम्बिवसनगृहे, भ०३श०७ उ०। आचा०। भवनगृहं यत्र / कुटुम्बिनो वास्तव्या भवन्ति / स्था०५ ठा० 170 / भवणच्छिद्द न०( भवनच्छिद्र) भवनानामवकाशान्तरे, प्रज्ञा०२ पद। भवणणिक्खुड पुं०(भवननिष्कुट) गवाक्षाऽऽदिकल्पे कस्मिंश्चिद्भवन- प्रदेशे, प्रज्ञा०२पद। भवणपत्थड पुं०(भवनप्रस्तट) भवनपतिनिकायाऽऽवासस्थापान्तराले, प्रज्ञा०२पद। भवणवइ पुं०(भवनपति) भवनानां पतयःतन्निवासित्वात्स्वामिनो भवनपतयः / प्रव० 164 द्वार / असुराऽऽदिकेषु देवालयविशेषनाथेषु देवविशेषेषु, पञ्चा०२ विव० / स्था। तेच दश,तानेवाऽऽहअसुरा 1 नागा 2 विज्जू 3, सुवण्ण 4 अग्गी अ५ वाउ 6 थणिया य 7 / उदही दीव दिसा विय 10, दस भेया 11 भवणवासीणं / / 43 / / भवनवासिनामवान्तरजातिभेदमधिकृत्य दश भेदा भवन्ति। तद्यथा(असुरा इति) पदैकदेशे पदसमुदायोपचाराद् असुरकुमाराः / एवं नागकुमारा इत्याद्यपि भावनीयम् / अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते? उच्यते- कुमारवच्चेष्टनात्। तथाहि- सर्वे एवैते कुमारा इव शृङ्गाराभिप्रायकृतविशिष्टोत्तरोत्तररूपक्रियासमुद्धतरूपवेषभाषाऽऽभरणप्रहरणावरणयानवाहना अत्युल्वणरागाः क्रीडनपराश्च, ततः कुमारा इव कुमारा इति / गाथाऽनुबन्धाऽऽनुलोम्याऽऽदिकारणाच कुतश्चिदेते एवं पठिताः / प्रज्ञापनाऽऽदौत्वमुनैव क्रमेण पठ्यन्ते। तथाहि- "असुरा नागसुवण्णा, विज्जू अग्गी अ दीव उदही अ। दिसि पवणथणिअनामा, दसहा एए भवणवासी।।१।।" प्रव० 164 द्वार। "एएसिणं दसविहाणं भवणवासीणंदेवाणं दसचे इयरुक्खा पण्णत्ता / तं जहा- अस्सुट्ठसत्तिवण्णे, सामलिउंबरसिरीसदहिवणे / वंजुलपलासवप्पायए य कणियाररुक्खे य।।१।।" स्था० 10 ठा० अनेन क्रमेणाश्वत्थाऽऽदयश्चैत्यवृक्षाः ये सिद्धायतनाऽऽदिद्वारेषु श्रूयन्ते इति / स्था० 10 ठा। भवणवर न०(भवनवर) गृहश्रेष्ठे, "भवणवरवडिंसगपडि, दुवारे।' भवनवरेषु भवनश्रेष्ठेषु अवतंसक इव मुकुट इव भवनव-रावतंसकस्तस्य प्रतिद्वारम् / कल्प०१अधि० 3 क्षण / उत्त० भवणवासि(ण) पुं०(भवनवासिन्) भवनेषु अधोलोकदेवाऽऽवासविशेषेषु वस्तुं शीलमस्येति भवनवासी। असुराऽऽदिके देवभेदे, स्था० २ठा० ३उ०। (ते च 'भवणवई' शब्देऽनन्तरमेव दर्शिताः) (एतेषां भवनाऽऽदिवक्तव्यता 'ठाण' शब्देचतुर्थभागे 1702 पृष्ठे गता) (द्वीपकुमाराऽऽदयः सर्वे समाहारा इत्यादिव-क्तव्यता 'दीवकुमार' शब्दे चतुर्थभागे 2542 पृष्ठे उक्ता) भवणावास पुं०(भवनावास) भवनेषु भवनवास्यादिदेवानामावासस्थानेषु आवासो भवनाऽऽवासः। भवनवास्यादिभवनान्तर्वर्तिन्यावासे, स०३४ सम०। प्रज्ञा०। (भवनाऽऽवासयोर्विशेषो भवण शब्देऽत्रैव भागे 1476 पृष्ठे उक्तः ) भवणिटवेय पुं०(भवनिर्वेद) संसारविरागे, पशा० ४विव० ला न हि भवादनिर्विष्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात्। ''भयवं भवणिव्वेओ।" ध०२ अधिक भवण्णव पुं०(भवार्णव) संसारसागरे, “भवण्णवतरंडतुल्लाणि णियमेण / " पंचा० १विव०॥ भवतंतु पुं०(भवतन्तु) तन्यते भवोऽनेनेति भवतन्तुः / भवतृष्णायाम्, उत्त०१३ अ० भवत्थ त्रि०(भवस्थ) भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः भारकाऽऽदिजन्म / भवे तिष्ठतीति भवस्थः / "स्थाऽऽदिभ्यः०-" / 53 / 8 / इति कः / संसारस्थे, नं०। उत्त भवत्थकेवलनाण न०(भवस्थकेवलज्ञान) भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो नारकाऽऽदिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्यः, अन्यत्र केवलोत्पादाभावात्। भवे तिष्ठतीति भवस्थः। "स्थादिभ्यःकः" / 5 / 3 / 8 / इति कः प्रत्ययः। तस्य केवलज्ञानं भवस्थकेवलज्ञानम् / केवलज्ञानभेदे, नं० (अस्यभेदाऽऽदि 'केवलणाण' शब्दे तृतीयभागे 647 पृष्ठे गतम्)

Loading...

Page Navigation
1 ... 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636