Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1467
________________ भरह 1456 - अभिधानराजेन्द्रः - भाग 5 भरह आसुरुप्तो रुष्ट इत्यादावेशेषणविशिष्टो यावत्करणात् भृकुटिं करोति अधिक्षिपति, शरं गृह्णाति, नाम च वाचयतीत्यादि ग्राह्य, प्रीतिदानं सर्वोषधी:- फलपामन्तवनस्पतिविशेषान् राज्याभिषेकाऽऽदिकार्योपयोगिनः माला कल्पद्रुमपुष्पमालां गोशीर्षचन्दनं च हिमवत्कुञ्जभवं कटकानियावत्पदात् त्रुटितानि वस्त्रानि आभरणानि शरंचनामाङ्कमिति ग्राह्य, द्रहोदक च-पद्मदहोदकं गृह्णाति, गृहीत्वा च तयोत्कृष्टयाऽत्र यावत्पदात् देवगत्या व्यतिव्रजति-भरतान्तिकमुपसर्पति, विज्ञपयति चेति ज्ञेयम्, उरस्यां क्षुद्रहिमवतो गिरेमर्यादायाम् अहं देवानुप्रियाणां विषयवासी यावत्पदात् 'अहं देवाणुप्पिआणत्तीकिंकरे' इति ग्राह्यम्, अहं देवानुप्रियाणाम् औत्तराहो लोकपालः, अत्र यावत्पदात् प्रीतिदानमुपनयति तद्, भरतः प्रतीच्छति, देवं सत्कारयति सन्मानयतीति, ग्राह्य, तथा कृत्वा च प्रतिविसर्जयति। अथाधिकोत्साहादष्टमभक्त तपस्तीरयित्वा कृतपारणक एवावधिप्राप्तदिग्विजयात कर्तुकामःश्रीऋषभभूः ऋषभकूटगमनायोपक्रमतेतए णं से भरहे राया तरए णिगिण्हइ, णिगिण्हित्ता रहं पारावत्तेइ, परावत्तिता जेणेव उसहकूडे तेणेव उवागच्छइ, उवागच्छित्ता उसहकूडं पव्वयं तिक्खुतो रहसिरेणं फुसइ, फुसित्ता तुरए निगिण्हइ, निगिण्हित्ता रहं ठोइ, ठवित्ता छत्तलं दुवालसंसिअं अट्ठकण्णिअं अहिगरणि-संठि सोवण्णि कागणिरयणं परामुसइ परामुसित्ता उसभकूडस्स पव्वयस्स पुरच्छिमिल्लंसि कडगंसि णामगं आउडेइ"ओसप्पिणीइमीसे, तइआएँ समाइ पच्छिमे भाए। अहमंसि चक्कवटी, भरहो इअ नामधिजेणं // 1 // अहमंसि पढमराया, अहयं भरहाहिवो णरवरिंदो। णत्थि महं पडिसत्तू, जिअंमए भारह वासं // 2 // " इति कट्टणामगं आउडेइ, णामगं आउडित्ता रहं परावत्तेइ, परावत्तित्ता जेणेव विजयखंधावारणिवेसे जेणेव वाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता०जाव चुलहिमवंतगिरिकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिव्वत्ताए समाणीए आउहधरसालाओपडिणिक्खमइ, पडिणिक्खमित्ता० जाव दाहिणिं दिसिं वेअड्डपव्वयाभिमुहे [याते यावि होत्था / पसूत्रम्-६३] 'तए णं' इत्यादि। ततो-हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृह्णातिदक्षिणपार्श्वस्थहयावाकर्षति, वामपार्श्वस्थहयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति, परावर्त्य च यत्रैवर्षभकूटं तत्रैवोपागच्छति, उपागत्य च ऋषभकूट पर्वत त्रिकृत्वो रथशीर्षण स्पृशति, स्पृष्ट्वा च रथ स्थापयति, स्थापयित्वा च षट्रतलं द्वादशासिकम् अष्टकर्णिकम् अधिकरणिसंस्थितं सौवर्णिकस्वर्णमयमष्टसुवर्णमयत्वात् काकणीरत्नं परामशति, एतेषां पदाना व्याख्यानं प्राग्वत्, परामृश्य च ऋषभकूटस्य पर्वतस्य | पौरस्त्ये कटके नामैव नामकं स्वार्थे कप्रत्ययः। आउडेइ त्ति' आजुडति सम्बद्धं करोति, लिखतीत्यर्थः / कथं लिखतीत्याह-'ओसप्पिणि' इत्यादि। अवसर्पिण्याः, अत्र षष्ठीलोपः प्राकृतवात्, अस्यास्तृतीयायाः समायाः-तृतीयारकस्य पश्चिमभागे तृतीये भागे इत्यर्थः अहमस्मि चक्रवर्ती भरत इति नाम धेयेन-नाम्ना // 1|| अहमस्मि प्रथमराजाप्रधानराजाप्रथम-शब्दस्य प्रधानपर्यायत्वाद्यथा ‘पढ़में चंदजोगे' इत्यादौ, एतद्व्याख्यानेन ऋषभे प्रथम-राजत्वं नाऽऽगमेन सह विरुध्यते, अहं भरताधिपः-भरतक्षेत्राधिपः, नरवराः-सामन्ताऽऽदयस्तेषामिन्द्रः नास्ति मम प्रतिशत्रु:- प्रतिपक्षः जितं मया भारत वर्षमिति कृत्वा नामकं 'आउडेइ त्ति' लिखति, अस्य सूत्रस्य निगमार्थकत्वान्न पौनरुक्त्यम्, अथ कृतकृत्यो यव्यवस्यति तदाह- 'णामगं आउडित्ता' इत्यादि, नामकं लिखित्वा रथं परावर्त्तयति, परावर्त्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च बाह्योपस्थानशाला तत्रैवोपागच्छति, उपागत्य च, अत्र यावत्पदात् तुरगान्निगृह्णाति, रथं स्थापयति, ततः प्रत्ववरोहति, मज्जनगृहं प्रविशति, स्नाति, ततः प्रतिनिष्क्रामति, भुक्ते, बाह्योपस्थानशालायां सिंहासने उपविशति, श्रेणीप्रश्रेणी: शब्दापयति, क्षुलहिमवद्गिरिकुमारदेवस्याष्टाहिकाकरण सन्दिशति, ताश्च कुर्वन्ति, आज्ञा च प्रत्यर्पयन्तीति ग्राह्य, ततस्तदिव्यं चक्ररत्नं क्षुल्लहिमवनिरिकुमारस्य देवस्याष्टाहिकायां महामहिमायां निवृत्तायां सत्यामायुध-गृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यावच्छब्दादन्तरिक्षप्रतिपन्नाऽऽदिविशेषणग्रहः, दक्षिणां दिशमुद्दिश्य वैताढ्यपर्वताभिमुखं प्रयातं चाप्यभवत्। तए णं से भरहे राया तं दिव्वं चक्करयणंजाव वेउडस्स पव्वयस्स उतरिल्ले णितंबे तेणेव उवागच्छइ, उवागच्छित्ता वेअद्धस्स पव्वयस्स उत्तरिल्ले णितंबे दुवालमजो-यणायाम०जाव पोसहसालं अणुपविसइ०जाव णमिविणमीणं विज्जाहरराईणं अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता पोसहसालाए०जावणमिविणमिविज्जाहररायाणो मणसी करेमाणे 2 चिट्ठइ, तए णं तस्स भरहस्सरण्णो अट्ठमभत्तंसि परिणममाणंसि णमिविणमिविजाहररायाणो दिव्वाए मईए चोइअमई अण्णमण्णस्स अंतिअं पाउन्भवंति, पाउन्भवित्ता एवं वयासी-उप्पण्णे खलु भो देवाणुप्पिआ! जंबुद्दीवे दीये भरहे वासे भरहे राया चाउरंतचक्कवट्टी, तंजीअमे अं तीअपच्चुप्पण्णमणागयाणं विज्ञाहरराईणं चक्कयट्टीणं उवत्थाणिकरेत्तए, तं गच्छामो णं देवाणुप्पिआ ! अम्हे वि भरहस्स रण्णो उवत्थाणि करेमो इति कटु विणमीणाऊणं चक्कवट्टि दिव्वाए चोइअमई माणुम्माणप्पमाणजुतं तेअस्सिं रूवलक्खणजुत्तं ठिअजुटवणके सवहिअणहं सव्वरोगणासणिं बलकरिं इच्छिअसीउण्हफासजुत्तं "तिसु तणुअंतिसु तंबं तिवलीगतिउण्णयं तिगंभीरं / तिसु कालं तिसु से अंतिआयतं तिसु अवित्थिण्णं // 1 // "

Loading...

Page Navigation
1 ... 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636