________________ सटिप्पणकम् [सर्गः 1, यतीति मूर्च्छयन् तस्मै / कान् / म्लेच्छान् / जय / स्वशरणागतसकलजनरमणत्वेन सर्वोत्कृष्टतया वर्तस्व / 'जयजयेति यदुक्तिरादरे / एकैकस्य वीप्सायामित्यादि / "श्रितेत्यादि गुर्जरीरागे प्रतिताले ध्रुवपदमिदम् / श्रितकमलाकुचमण्डल धृतकुण्डल ए कलितललितवनमाल जय जय देव हरे // 1 // हे देव हे हरे त्वं जय जय / स्वशरणागतसकलजनरमण त्वं सर्वोत्कृष्टतया वर्तस्व / हे श्रितकमलाकुचमण्डल / श्रितमाश्रितं कमलायाः लक्ष्म्याः कुचमण्डलं कुचाभोगः येन स तथा तस्य संबोधने / हे श्रितकमलाकुचमण्डल / पुनः किंभूत / हे धृतकुण्डल / धृतं कुण्डलं येन स तथा तस्य संबोधने / पुनः किभूत / हे कलितललितवनमाल / कलिता स्वीकृता ललिता मनोहरा वनमाला येन स तथा तस्य संबोधने / हे कलितललितवनमाल / हे हरे हे देव जय जय जययुक्तो भव / सर्वोत्कर्षेण वर्तस्व / दिनमणिमण्डलमण्डन भवखण्डन ए मुनिजनमानसहंस जय जय देव हरे // 2 // किंभूत / हे दिनमणिमण्डलमण्डन / दिनस्याह्नो मणिः सूर्यः तस्य मण्डलं तद् मण्डयतीति तस्य संबोधने / पुनः किंभूत / हे भवखण्डन / आत्मभक्तानां सेवकानां भवो जन्म खण्डयतीति तस्य संबोधने / मुक्तिं ददातीत्यर्थः। पुनः किंभूत / हे मुनिजनमानसहंस / मुनयश्च ते जनाश्च तेषां मानसानि तत्र हंसः तस्य संबोधने / स्वच्छतया शुद्धभावेन हृदयस्य मानससरोवरस्य शब्दच्छलेन तुल्यता / जय जय देव हरे प्रतिपदयोजनेयमित्यर्थः / कालियेत्यादि कालियविषधरगञ्जन जनरजन ए यदुकुलनलिनदिनेश जय जय देव हरे // 3 // 1) This sentence is found at this place in both the MSS. P and A. The MS B places it, however after गुर्जरी......गीयते रसे / Its right ful place :appears to be just before हे श्रितकमलाकुचमण्डल / 2) P and A drop श्रितेत्यादि / 3)B गुर्जरीरागेण गोयते / / 4) B दिनस्य / अहोमणिः सूर्यः / 5) A प्रतिपदे योजनीयमित्यर्थः, B adds जय जय देव हरे प्रतिपदयोजनीयमित्यर्थः /