Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ गीतगोविन्दकाव्यं सटीकम् / [ कुम्भनृपतिप्रणोतटीकायां (पृ. 123 ) समुद्धृतो लभ्यते श्लोकोऽयम् / शङ्करमिश्रव्याख्यायां तु श्लोकोऽयं पाठभेदेन दृश्यतेप्राणेश्वरं प्रणयकोप' विशेषभोतं या चाटुकारमवीर्य विशेषवाग्भिः / संतप्यते मदनवह्निशिखा' समूहै बष्णिाकुलेह कलहान्तरिता हि सा स्यात् / / पाठान्तराणि: 1 भरेण भीतं 2 सहस्र 3 बाष्पाकुला च] 37 . 10 कर्णाटरागेण गोयते / एकताले / रागलक्षणात् / कृपाणपाणिर्गजदन्तपत्रमेकं वहन् दक्षिणकर्णपूरे / संस्तूयमानः सुरचारणौघैः कर्णाटरागः शिखिकण्ठनील: :: [ सङ्गीतदर्पणे पाठभेदेन दृश्यते श्लोकोऽयम्कृपाणपाणिगंजदन्तपात्रं(खण्ड) एकं वहन् दक्षिणहस्तकेन / संस्तूयमानः सुरचारणोघैः कटरागः क्षितिपालमूर्तिः // ] 42 . 18 देशाख्यरागण गीयते / एकतालीताले / रागलक्षणात् / आस्फोटनाविष्कृतरोमहर्षों निबद्धसन्नद्धविशालवाहुः / प्रांशुप्रचण्डोन्नत इन्दुगोरो देशाख्यरागः किल मल्लमूर्तिः / / अत्राप्युत्कण्ठिता नायिका / 48 . 12 गौडीरागण गीयते / परिमठताले / रागलक्षणात् / विनोदयन्ती दयितं सुकेशो सुकङ्कणा चामरचारुहस्ता / कर्णे दधाना सुरपुष्पगुच्छं वराङ्गनैषा कथिता वराला / / [गायनप्रकाशे श्लोकोऽयं स्वल्पपाठभेदेन लभ्यते विनोदयन्ती दयितं सुकेशी सुकङ्कणा चामर चारुहस्ता / कर्णे दधाना सुरवृक्षपुष्पं वराङ्गनेयं कथिता वराटी। गौडी, वराली, वराटी, वराडी-इत्येतानि नामानि एकस्यैव रागम्येति प्रतिभाति / ] अत्रापि अभिसारिका नाम नायिका / तल्लक्षणात् / या निर्लज्जीकृता बाढं मदने मदनेन च / अभियाति प्रियं साभिसारिकेति मता यथा // [ शृङ्गारतिलक 1.80 ] 6 . 1: नटरागेण गोयते रूपकताले / रागलक्षणात् / तुरङ्गमस्कन्धनिषक्तबाहुः स्वर्णप्रभः शोणितशोणगात्रः / संग्रामभूमौ विचरन् धृतासिनटोऽयमुक्तःकिल कश्यपेन // [ तुरङ्गमस्कन्धनिबद्धबाहुः स्वर्णप्रभः शोणितशोणगात्रः / संग्रामभूमौ विचरन् प्रतापी नटोऽयमुक्तः किल रागमूर्तिः // ] अत्र वासकशय्या(? सज्जा)नायिका / तल्लक्षणात् / भवेद् वासकशय्या(सज्जा)सौ सज्जिताङ्गरतालया /

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162