Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 152
________________ गीतगोविन्दकाव्यं सटीकम् / 123 62 * 3 इच्छायामपि चतुर्थी / [ ? ] 64 * 25 विनासहसमयोगे तृतीया / 'तृतीया सहयोगे' इति कातन्त्र(२.४.२९.)सूत्राभिप्रायमनुरुध्येदमुक्तं भवेत् / 68 . 17 आधारे सप्तमी / 1.22 संवन्धिनी पूर्वोक्ता टिप्पणिका द्रष्टव्या / 71 * 2 सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः / यथा दीर्घजङ्घः / दीर्घजधेति पुंबद्भावे निर्दिनोदाहरणवत् 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति कात्यायनवार्तिकमत्र नोपपन्नं भवति / 72 * 2 प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः / 49 . 10 संबन्धिनी पूर्वनिर्दिष्टा टिप्पणिका द्रष्टव्या / 73 * 7 निर्धारणे षष्ठी। ___ निर्धारणे च' इति कातन्त्रसूत्रानुसारेण मानाङ्केनेदमुक्तं स्यात् / 78 * 22 तादर्थं चतुर्थी / ___'तादये' इति कातन्त्र (२.४.२७.)सूत्रानुसारेण मानाङ्कस्येयमुक्तिः स्यात् / 84 : 15 रुच्यर्थे चतुर्थी / ___'यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम्' इति कातन्त्रसूत्र(२०४.१०.). मनसिकृत्य मानाङ्केनेदमुक्तं स्यात् / 84 * 24 दन्तस्य दत् बहुव्रीहौ / एतद्विषयकं सूत्र कातन्त्रे नोपलभ्यते / 'वयसि दन्तस्य दतृ' (पाणिनि 5.4.141.) इत्येतत्सूत्रमनुरुध्येदमुक्तं स्यात् मानाङ्केन / 87 . 27 स्वरेऽक्षरविपर्ययः / कातन्त्र 2.5.23. 88 . 5 तत्वौ भावे / कातन्त्र 2.6.13. 93 * 2 असु क्षेपणे / पाणिनीयधातुपाठे / 97 . 2 प्रकृष्टार्थे तरतो प्रत्ययो भवतः / 49 * 10 संबन्धिनी पूर्वोका टिप्पणिका द्रष्टव्या। 109 . 31 जातौ एकवचनम् / / 12 . 6 संबन्धिनो पूर्वनिर्दिष्टा टिप्पणिका द्रष्टव्या /

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162