Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 153
________________ परिशिष्टम्-३॥ "B" संज्ञकमातृकायां टिप्पणिकाकारेण प्रदत्तानां रागतालनायिकालक्षणानां लेखकप्रमादबहलानां समुद्धारः यथामति संशोध्यात्रास्माभिः प्रदर्शितः / 3 . 24 गौडमालवरागण गीयते / रागलक्षणात् / नितम्विनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डलवान् प्रसन्नः / सङ्केतशाला(? सङ्गीतशालां)प्रविशन्प्रदोषे मालाधरो मालवरागराजः / / रूपकताले ताललक्षणात् / 8 . 4 गुर्जरीरागण गीयते / रागलक्षणात् / -- श्यामा सुकेशी मलयदुमाणां मध्ये लसत्पल्लवतल्पमाला (पाठान्तरम् : मृदूल्लसत्पल्लवतल्पमध्ये) / श्रुतिस्वराणां दधती विभागं तन्त्रीमुखा दक्षिणगुर्जरीयम् / / परिमठे ताले / ताललक्षणात् / प्लुतमात्रेण वृद्धि स्याद्यत्र ताले निरन्तरा परिमठे सशृङ्गारे गीयते रसे / 11 * 23 वसन्तरागण गीयते रूपकताले। रागलक्षणात् / शिखण्डिबोच्चयबद्धचूडः पुष्णाति को चूतलताङ्कुरेण / भ्रमन्मुदाराममनङ्गमूर्तेमतो मतङ्गस्य वसन्तरागः // तत्र प्रोषितप्रेयसी नायिका / तल्लक्षणात् / कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः / दत्त्वावर्षि भृशाः सा प्रोषितप्रेयसी यथा // [शृङ्गारतिलक 1.81] 16 . 25 राम कलीरागेण गोयते / रागलक्षणात् / स्वर्णप्रभा भास्वरभूषणा च नीलं निचोलं सुतनो वहन्ती। कान्ते पदोपान्तमधिस्थितेऽपि मानोन्नाता रामकली प्रदिष्टा // रूपकताले / अत्रापि प्रोषितप्रेयसी नायिका / गर्जरीरागेण गीयते / रूपकताले / अत्रापि प्रोषितप्रेयसी नायिका / 25 . 17 गौडमालवरागेण गीयते / एकताली ताले / चन्द्रिका विपुलारामा एकतालो त्रिधा मता / एकतालीत्रयं मध्यविपुला नाम सा मता / / तल्लक्षणात् / गुरुत्रयेण विपुला शृङ्गारे गीयते रसे इति / अत्रोत्कण्ठिता नाम नायिका / तल्लक्षणात् / उत्का भवति सा यस्या वासके नागतः प्रियः / तस्यानागमने हेतुं चिन्तयन्त्या कुला यथा // [शृङ्गारतिलक 1.75] 32 . 1 गरीरागेण गोयते / रागलक्षणात् / परिमठताले तल्लक्षणात् / (अत्र कलहान्तरिता नायिका / ) तल्लक्षणात् / प्राणेश्वरं प्रणयकोपविशेषभीतं या नाम चाटुमनिरीक्ष्य विकुप्य याता / संतप्यतेऽनुनयवह्निशिस्खासहस्रैः सुव्याकुलैव कलहान्तरिता हि सा स्यात् // 2ii

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162