Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 108] सटिप्पणकम् [ सर्गः 12 ___एवं रतिकेल्युपकरणसामग्री मुक्त्वा उपक्रमोक्तरह केलिपर्यवसायिमनोरमरतिरसभावविनोदमाह प्रत्यूहः पुलकान्तरेणेत्यादिभिः प्रत्यूहः पुलकान्तरेण निबिडाश्लेषे निमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने कथानमभिः / आनन्दाभिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू दुद्भूतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः // 2 // स सुरताम्भः तयोः राधामाधवयोः बभूव / यस्मिन् सुरतारम्भे प्रत्यूहो विघ्नोपि प्रियंभावुकः प्रीतिजनकोऽभूत् स सुरतारम्भ उद्भूतः उद्भटो बभूव / यद्वा। यः पूर्व सखि हे केशीमथनमुदारं मया सह रमयेति सखीं प्रति प्रार्थितं उत्कण्ठितया प्रार्थितः सः तथा अन्यत्र कार्यारम्भे मध्ये वा प्रत्यूहो दुःखजनको भवेदिहादौ मध्ये प्रत्यूहमुत्तरोत्तरं परस्परं प्रियंभा वुकोऽभूदिति / कस्मिन् केन तत्राह / निर्विशेषे पुलकान्तरेण च / गाढालिङ्गने विपुलपुलकपृथुदन्तुरितमित्युक्तेन सात्त्विकाविर्भावत्वात् / क्रीडाकूतविलोकिते निमिषेण च अलसनिमीलितलोचनया पुलकावलिललितकपोलमिति पूर्व प्रार्थितत्वेन स कथं प्रियंभावुकः तं काचिन्नेत्ररन्ध्रण हृदिकृत्य निमील्य च। पुलकाङ्गयुपगुह्यास्ते / किञ्च / असन्मुखावलोकनमामिमुख्यमित्युक्तत्वाच्च तथा। क्रीडाविचाराविर्भावपूर्वकविलोकनेऽनुभवैकवेद्यानिर्वचनीयसुखातिशयजनकत्वात् तथोक्तं अधरसुधापाने कथानमभिः / पूर्व प्रार्थिताधरसुधारसमुपनीय भामिनीतिदशम्यवस्था ...... निवारिकाप्यधरसुधापाने कथानमभिः नानाप्रकारिका रसोत्पादिका पराजनारमणविषयिणी "तदधरमधुरमधूनि पिबन्तम्" (सर्गः 6) इत्यादिरूपा श्लिष्यति कामपि चुम्बति कामपि(सर्गः 1) इति दृष्टत्वादेवंविधाभिर्नर्मकथाभिः प्रत्यूहः प्रियंभावुकोऽभूत् / ततो मन्मथकलायुद्धेऽपि आनन्दाधिगमेन तथा। कामशास्त्रोक्तचतुरशीत्यासनरूपा मन्मथकलास्तासां युद्धे नखदन्तक्षतबाहुबन्धनादिभिर्विरतिममन्यमानः परस्परं जयाभिकाङ्क्षादिरूपे सुरतयुद्धे आनन्दाधिगमः अनिर्वचनीयानन्दरसार्णवधिगमस्तेन च तथा / एवं विधे तयोः सुरतारम्मे प्रत्यूहः प्रियंभावुकः प्रियंभवनशीलोऽभूदिति भावः। न केवलं सुरतारम्भे प्रत्यूह एव प्रियंभावुकोऽभूत् किन्तु बन्धनादिकमपि काप्यनिर्वचनीयतृप्तिजनकं बभूव इत्यत्राह-दोभ्यां संयमित इति / दोभ्यां संयमितः पयोधरभरेणापीडितः पाणिजै राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः /

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162