Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 143
________________ 114] सटिप्पणकम् [सर्गः 12 मदनस्तस्य ध्वजो केतुः ध्वजदण्डस्तस्य चामरं तस्मिन् / पुनः किम्भूते। रतिगलिते रतौ सुरतसमये गलितः परिमुक्तस्तस्मिन् / पुनः किम्भूते / ललिते मनोहरे। पुनः किम्भूते / शिखण्डविखण्डकडामरे। शिखण्डस्य मयूरपिच्छजालस्य विखण्डकस्तिरस्कारी डामरः संभ्रमः शोभाविशेषो यस्य स तथा तस्मिन् / सरसघनेत्यादि। सरसघने जघने मम शम्बरदारणवारणकन्दरे / मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे // 7 // किञ्च / हे शुभाशय / शोभन: स्वच्छः आशयः अन्तःकरणं यस्यासौ तथा तस्य संबोधने हे शुभाशय / मम जघने मणिरसनाभरणानि वासयेति योजय / मणिभिर्युक्ता रसना मणिरसना च वसनं दुकूलं च तत् आभरणं च तानि। किम्भूते। सरसघने रसेन शृङ्गाररसेन सह वर्तत इति सरसं च तत् घनं निबिडं च तत् तस्मिन् / पुनः किम्भूते / शम्बरदारणवारणकन्दरे शम्बरं दैत्यं दारयतीति शम्बरदारणः / 'शम्बरारिमनसिजः कुसुमेषुरनन्यजः' इत्यमरः / स एव वारणो मत्तगजः तस्य कन्दरः क्रीडादरी तस्मिन् / पुनः किम्भूते / सुन्दरे मनोहरे। श्रीजयदेवेत्यादि। श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने / हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने // 8 // __ हे श्रीकृष्ण नारायण, त्वं हृदयं सदयं कुरु / सह दयया (इति सदयम्)। कस्मिन्। श्रीजयदेववचोस / श्रीः शोभा [तया] युक्तस्य जयदेवस्य वचस्तस्मिन् / किम्भूते / रुचिरे रमणीये / पुनः किम्भूते। हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने हरेश्चरणौ तयोः स्मरणं तदेवामृतं तेन 'निर्मितं कलिकलुषं पापं तदेव ज्वरः संतापः तं खण्डयतीति तत्तथा तस्मिन् / यद्वा तस्य खण्डनं निव तनं येन तत्तथा तस्मिन् / पुनः किम्भूते / मण्डने भूषणे / यद्वा हे जयदेव श्रीकृष्ण त्वं जय उत्कृष्टतया वर्तस्व / कस्मिन् / तस्मिन् जयदेवस्य वचसि / ननु किमिति निवर्तितव्यमित्याशझ्य तत्र भक्तपराधीनत्वहेतुमाह / हे सदयहृदय / कस्मिन् / कुरुमण्डने कुरूणां यदुवंशानां मण्डनं युधिष्ठिरादि 1°अत्यन्तभक्तस्तस्मिन् / 11किम्भूते / हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने हरेश्चरणौ तयोः स्मरणं तदेवामृतं तेन निर्मितं कलिकलुषं पापं तदेव ज्वरः सन्तापः तस्य खण्डनं येन वचसा तत्तथा तस्मिन् / 1) B मारः तस्य / 2) B drops रतौ। 3)B drops from शोभन: to हे शुभाशय / 4) B शम्बरदारणः कामः स एव वारणो 5 ) B सज्जनमण्डने / 6) B drops सह दयया / 7) B कलियुगस्य कलुषं पापं तस्मात् ज्वरः 8) B drops यद्वा तस्य खण्डनं निवर्तनं येन तत्तथा तस्मिन् / 9) B drops ननु किमिति निवर्तितव्यमित्याशक्य / 10) B भक्तस्तस्मिन् / 11. B drops from किम्भूते to वचसा तत्तथा तस्मिन् /

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162