Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 144
________________ श्लोकः 10] . गीतगोविन्दकाव्यम् [115 गीतार्थसंग्रहश्लोकमाह रचयेत्यादि / रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो घटय जघने काञ्चीं मुग्धस्रजा 'कबरीभरम् / कलय वलयश्रेणी पाणौ पदे मणिनूपुरा विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत् // 9 // राधया इति निगदितः उक्तः सन् पीताम्बरः श्रीकृष्णोऽपि तथा अकरोत् / किम्भूतः। प्रीतः हृष्टः / कथम् / इति / इतीति किम् / त्वं मम कुचयोः पत्रं मृगमदपत्रावली रचय कुरु / किञ्च / कपोलयोश्चित्रं कुरुष्व / केन / करेण / किञ्च / जघने काञ्ची घटय नियोजय / किञ्च / कबरीभारं केशपाशं कुसुम मालया अर्चय / अथवा कबरीभरे केशपाशे स्रि कुसुमसात्तीसं (1 कुसुमो सं) च बध्नामि (? बधानेति) किञ्च / पाणौ वलयश्रेणी विलयानां पङ्क्तिं कलय / समारोपय / किञ्च / पादौ (1 पदे) नूपुरौ पदे चरणयोः कुरु समारोपय / 'यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्त्वमखिलं काव्येषु लीलायितम् / तत्सर्वं जयदेवपण्डितकवेः कृष्णकतत्त्वात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः // 10 // इति श्रीजयदेवकृता गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः / 10इति श्रीगीतगोविन्दटीकायां स्वाधीनभर्तृकावर्णने सुप्रीतपीताम्बरो नाम द्वादशः सर्गः समाप्तः। श्रीकृष्णार्पणमस्तु / सं[व]त् 1569 वर्षे शाके 1434 प्रवर्तमाने लिखिता। पीताम्बरो नाम द्वादशः सर्गः 12 लिखितवान् जिरजीववलदेवः / श्रीरस्तु।। 1) B कबरीभरे 2) B केन कारणेन / किञ्च / 3) B योजय। 4) B स्र कुसुमावलि सिञ्च वै बंधय (1) / 5) B वलयनां कङ्कणानां / 6) B समालोकय / 7) B यद्गन्धर्व / 8) B adds the following stanza: सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं राधामाधाय बाह्वोर्विवरमनु दृढं पीडयन् प्रीतियोगात् / तुगौ तस्या उरोजावतनु- वरतनोनिर्गतौ मा स्म भूतां पृष्ठं निर्भिद्य तस्माद् बहिरिति वलितप्रीवमालोकयन् वः // 9) B इति श्रीगीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः // 12 // 10)B इति श्रीगीतगोविन्दे महाकाव्ये कविश्रीजयदेवकृतौ टीकायां स्वाधीनभर्तृकावर्णने सुप्रीतपीताम्बरो नाम द्वादशः सर्गः / श्रीरस्तु /

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162