Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 8] गीतगोविन्दकाव्यम् [113 नयन एव सुलोलचञ्चलत्वात् कुरङ्गौ कृष्णमृगौ तयोस्तरङ्गः विसर्पणं तस्य विकाशः प्रकाशः तस्य निवासो रोधनं सीमावधिस्तं करोतीति तत्तथा तस्मिन् / श्रुत्योः श्रवणयोः मण्डलं तस्मिन् / पुनः किम्भूते / मनसिजपाशविलासघरे मनसिजस्य मदनस्य पाशः तस्य विलासः शोभा तं धरतीति तथा तस्मिन् / भ्रमरचयेत्यादि। * भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम संमुखे / जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे॥४॥ किञ्च / हे प्रिय, मम संमुखे अग्रे स्थित्वा मुखे वदने अलकं कस्तूरिकादिपत्ररचनं [च परिकर्मय प्रसाधय / किम्भूतम् / नर्मजनकं नर्मलीलां जनयताति संपादयतीति तथा तम् / किं कुर्वन्तमिव / उपरि मुखस्य उपरि सुचिरं सुविलम्बं यथा स्यात्तथा रुचिरं रमणीयं भ्रमरचयं रचयन्तमिव / इवशब्दस्य लोपा द्रष्टव्यः / किम्भूते मुखे / जितकमले सौन्दर्येण जितं कमलं येन तत्तथा तस्मिन् / पुनः किम्भूते / विमले निर्मले। मृगमदेत्यादि। मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे / विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे // 5 // किञ्च / हे नाथ कमलानन / कमलवदाननं यस्य स तथा तस्य संबोधन . हे कमलानन / ममालिकरजनीकरे तिलकं कुरु। अलिकमेव रजनीकरश्चन्द्रः तस्मिन् / ललाटमलिकं गोधिरूचे दृग्भ्यां भ्रुवौ स्त्रियामित्यमरः / किम्भूते / विश्रमितश्रमशीकरे। श्रमः सुरतश्रमः तेन शीकरा नीरकणाः विश्रमिताः श्रमशीकरा यस्मिन् तत्तथा तस्मिन् / किम्भूतम् / मृगमदरसवलितं मृगमदः कस्तूरी तस्य रसोद्भवः तेन वलितः संवर्धितः समृद्धो वा तत् / पुनः किम्भूतम् / ललितं रमणीयम् / पुनः किम्भूतम् / विहितकलङ्ककलं कलङ्कस्य कला, विहिता कृता कलङ्ककला येन तत्तथा। श्यामत्वात् / ममेत्यादि। मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे। . रतिगलिते ललिते कुसुमानि शिखण्डविखण्डकडामरे // 6 // किञ्च / हे मानद / दोऽवखण्डने / मानं द्यति खण्डयतीति। यद्वा / मानस्स्वात्माभिमानिता। सर्वोत्कर्षवर्तित्वमित्यर्थः। मानोन्नतिं ददातीति स तथा तस्य संबोधनं हे मानद / मम रुचिरे रमणीये चिकुरे कुन्तलनिचये कुसुमानि कुरु निवेशय / किम्भूते / मानसजध्वजचामरे मानसे हदये जायत इति मानसजो 1) B कृष्णसारौ मृगौ 2) B तस्मिन्निवासे यस्मिन् तत्तथा / 3) B drops from पुनः to तथा तस्मिन् / 4) B adds रचय / 5 )B drops दोऽवखण्डने धातुः / 6 )B drops यद्वा ..मित्यर्थः /

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162