Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 7] गीतगोविन्दकाव्यम् [111 इत्यमुना प्रकारेण प्रातर्निखातैः कामशरैः पत्युदंशोलग्नैर्मनः कीलितमित्यद्भुतमभूद् / तस्याः श्रीराधायाः उरः पाटलपाणिजाङ्कितं पाटलपुष्पतुल्यैर्नखै. श्चिह्नितम् / दृशौ निद्राकषाये तस्याः नेत्रे रात्रिजागरणान्निद्रया कलुषीकृते। अधरशोणिमा निधौतः प्रतिक्षणाधरपानादारक्तता निर्धाता उज्ज्वलीकृता। सहजारक्तत्वाद् निर्गतधौतो निधूतोऽधरशोणिमा निर्गतधौतो जातः / प्रतिक्षणचुम्मनाद् धौतोऽपि न ज्ञात इति भावः / एवं सति पूर्वोक्तदन्तांशुधौताधरमित्युक्तौ विरोधापत्तिः तत्रायमाशयः। तत्र विकसहन्तांशुभिः अतिनैर्मल्यत्वात् कुन्दकलिकातुल्यविकसद्दन्तांशुभिः प्रतिबिम्बैः धौतः उज्ज्वलीकृतः / न तु धौत इति भावः / मूर्धजा विलुलितस्रस्तस्रजः विलुलिताः स्रस्ताः स्रजो येभ्यः, प्रथितकुसुममालायंसनाद्विललिता इतस्ततः केशा जाताः / काञ्चीदाम दरलथाञ्चलं कटिमेखलाबन्धनमीषत् प्रलथम् अञ्जलं प्रान्तभागं यत्र इत्येभिर्निखातैस्तीक्ष्णैः कामशरैः पत्युदंशोलग्नैः मनः कीलितम् / अन्यत्र लग्नैरन्यत् कीलितमित्याश्चर्यमित्यर्थः। ततोऽवस्थान्तररसविशेषमाह-व्यालोलः केशपाश इति / व्यालोलः केशपाशस्तरलितमलकैः स्वेदमोक्षौ कपोलौ क्लिष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः / काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छाद्य सद्यः पश्यन्ती सत्रपा सा तदपि विलुलिता मुग्धकान्तिर्धिनोति // 7 // पत्युमनः कीलितस्य भावनया विलुलितस्रग्धरेयं श्रीराधा मां धिनोति विशेषेण लुलिता स्रक् धरतीति तथाभूता मां पुनरत्युत्सुकं करोति / कीदृशी। स्तनजघनपदं सद्यः पाणिनाच्छाद्य सत्र मां पश्यन्ती / विलुलितस्रग्धरा केनैवं. विधं करोति / स्तनं च जघनपदं च स्तनजघनपदं पाणिना एकेन स्तनमाच्छाद्य एकेन पाणिना जघनाग्रमाच्छाद्य / रसनादिव्यतिरेकेणानावृतत्वात् सलज्जं यथा स्यात् तथा मां पश्यन्ती धिनोति / केवलाङ्गदर्शनात् प्रीणयतीति भावः। किं कृत्वा / व्यालोलः केशपाशः विलुलितस्त्रक्तया विकीर्णकेशपाशः, अलकैस्तरलितं चूर्णकुन्तलैश्चञ्चलीभूतम्. कपोलो स्वेदेन व्याप्ती, बिम्वाधरश्री क्लिष्टा क्षता क्षतयुक्ता बिम्बवदधरश्रीः शोभा जाता। कुचकलशरुचा कान्त्यार्थात् मुक्ताहारालिङ्गनेऽन्तरायभूतत्वाद्यष्टिः सारिता तिरस्कृता / काञ्ची काञ्चिदाशां गता काञ्चिद्दिशं प्राप्ता सांनिध्याभावः स्तनजघनपदं सद्यः पाणिनाच्छाद्य सत्रपं रसावेशशैथिल्यादेवं निजागावलोकनान्मनः क्रीडाविशेषात् कलनात् सत्रपम् / एवंविधा सती मां पश्यन्ती तथा करोतीत्यर्थः। ततोऽवस्थान्तरमाह-इति मनसेति / इति मनसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी। राधा जगाद सादरमिदमानन्देन गोविन्दम् // 8 // 1 मुद्रितग्रन्थ 'अथ सहसेति' पाठः /

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162