Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 110 ] सटिप्पणकम् [सर्गः 12 त्वात् मिश्रितत्वाद् द्वयोर्विशेषणम् / रतिपक्षे मारः कामस्तस्याङ्के चिहूने दोभ्यां संयमितादिकैरङ्किते / रणपक्षेऽपि तथा / मारः मारणं ताडनं श्रोणीतटेनाहननादिकैरङ्किते चिह्निते इति भावः। जघनस्थलीपदोक्त्यारतिरणभूमिः सूचिता। पौरुषरसोक्त्या विपरीतरत्युक्ता। रतिविपरीते राजसे सुकृतविपाके सख्युक्तत्वात्तथा / एवंविधः स्त्रीणां पौरुषरसः कुतः सिद्धयतीत्यर्थः / ततस्तस्या रसावेशावसरे प्रियोऽधरं पीतवानित्याह-ईषन्मीलितेत्यादि / ईषन्मीलितदृष्टि मुग्धविलसत्सीत्कारधारावशा दव्यक्ताकुलकेलिकाकुविकसदन्तांशुधौताधरम् / शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात् कुरङ्गीदृशो हर्षोत्कर्षविमुक्तिनिःसहतनोर्धन्यो धयत्याननम् // 5 // ईषन्मीलितदृष्टीति / धन्यः कुरङ्गीदृशः आननं पिबति / आत्मानं धन्यमन्यमान इति धन्यः प्रियः श्रीकृष्णः कुरङ्गी मृगी तस्या दृशीव चपले दृशौ यस्याः सा कुरङ्गीदक् तस्याः श्रीराधायाः आननपानमशक्यं तत् कथं पिबतीत्याह / कीदृश्याः।हर्षोत्कर्षविमुक्तिनिःसहतनोः हर्षादानन्दातिशयाद्विशिष्टाया मुक्तिः तया सुखदुःखात्यन्ताभावरहितया निःसहा सहः सहनं, निर्गतः सहः यस्याः सा निःसहा, निःसहा तनुर्यस्याः / एवंविधायाः स्थिरीभूताया आननम् / कीदृशम् / मीलितदृष्टि मीलतीति मीलन्ती दृष्टिर्यस्मिन् तत् / चाञ्चल्यरहितदृष्टियुक्तम् / पुनः कीदृशम् / सीत्कारधारावशादव्यक्ताकुलकेलिकाकुविलसद्दन्तांशुधौताधरं सीत्कारस्य धारा अविच्छिन्नता तस्या वशादव्यक्ता अस्पष्टा आकुला अनवस्था या केलिस्तस्यां काकुः तया विकसद्भिर्दन्तांशुभिधौंतो उज्ज्वलीकृतोऽधरो यस्मिन् तत् / एवंविधरसावेशयुक्ताया आननं पिबति / एवंविधः सन्नेवंविधाया आननपानादात्मानं धन्यं मन्यमानो धन्य इत्यर्थः। आननं पिबतीत्यत्राननस्य पानं न संभवति पानमधरामृतस्येति चेत्तदाननपानशब्दस्तु लाक्षणिकः यथा गङ्गायां घोषः प्रतिवसति / यथा गोदोहनं करोतीत्यत्र लक्षणा गोः स्तनसकाशाद्दुग्धदोहनं, गङ्गायास्तीरे घोषनिवासः तथाननसकाशादधरामृतपानमित्यर्थः सूचितः / अथ प्रियायाः सुरतचिह्नशोभितवपुर्दर्शनेन प्रियस्य प्रमोदोत्सवमाहतस्या इति / तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निधीतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धनाः। काञ्चीदाम दरश्लथाञ्चलमिति मातर्निखातैर्देशो रेभिः कामशरैस्तदद्भुतमभूत् पत्युमनः कीलितम् // 6 //

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162