Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोकः 4] गीतगोविन्दकाव्यम् [109 हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः // 3 // अहो इत्याश्चर्यम् / कामस्य वामा गतिः कामस्य प्रेम्णः वामाद्भुता गतिः / तद्गतेर्वामत्वं किमत आह / दाा संयमितः कान्तया बाहुभ्यां कान्तो बन्धितः। कं सुखम् आ समन्तात् अन्ति प्रापयति प्राप्नोति वा कान्तः। अन्त गतौ / स दोभ्यां दो अवखण्डने / तदृग्भ्यां बद्धः बन्ध पीडाजनक कामपि तृप्तिजनकत्वादा श्चर्यमिति भावः / पयोधरभरेणापीडितः पयोधरभरातिशयेनासमन्तात् पीडितः। कामपि तृप्तिजनकत्वात् पयोधरोक्तः...शिनां नित्यानां तृप्तिजनको भवति कान्तस्यापीडनस्पर्शात्तथात्वादित्याश्चर्यमिति भावः। पाणिजैनखैरासमन्ताद् विद्धः दशनैः क्षताधरपुटः दन्तैः क्षतः अधरपुटो यस्य सः। श्रोणीतटेनाहतः रतिरमणे / आसनबन्धादिविशेषे श्रोणीतटेनासमन्ताद्धतस्ताडितः प्रापितो वा / हन हिंसागत्योः। हस्तेनानमितः कचेऽधरसुधापानेन संमोहितः। हस्तेन कृत्वा कचे शिखां गृहीत्वा ईषन्नमितः नम्रीकृत्वाधरपानेन अधरसुधापानं कारयित्वा सम्यक् मोहितः। "सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखरशरघातम् / घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् / / " ( सर्ग 10) इत्यभीप्सितप्रार्थितत्वात् तथा कृतमिति भावः / इत्यादिभिः कान्तया परिभूतोऽपि कामप्यनिर्वचनीयां तृप्तिं सर्वेन्द्रियविषयिणीम् आप प्राप्तवान् / तस्मात् कामस्य वामा गतिरित्याश्चर्यमित्यर्थः / एवं बहुविधचटुलत्वेन बहु संप्रार्थितं ततो न शातं तदाह वामाङ्केत्यादिभिःवामाङ्के रतिकेलिसंकुलरणारम्भे तया साहस प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्संभ्रमात् / निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति // 4 // वामाङ्क इति / रतिकेलिरेव संकुलरणः परस्पराहतसंग्रामस्तस्यारम्भे तया श्रीराधया कान्तजयाय कान्तस्योपरि साहसप्रायम् उत्साहपूर्वकं किञ्चिदनिर्वचनीयं यत् प्रारम्भि तत् संभ्रमात् संभ्रमजनितानन्दातिशयादायासात् / तस्या जघनस्थली पूर्वमतिचपलाभूत् सा निष्पन्दा गतिरहिता जाता। शिथिलिता दोर्वल्लिः पूर्व दोभ्या संयमितः पयोधरभरेणापीडितस्तया तस्या दोर्वल्लिः शिथिलता जाता। वक्ष उत् अधिकं कम्पितं सात्त्विकाविर्भावाद्वेपथुयुक्तं जातम् / पूर्वमनिमेषे क्रीडाकूतविलोकनपरेऽक्षिण्यास्तां तदक्षिनिमीलितम् / जातौ एकवचनम् / पूर्वमेवं पौरुषरसः। स्त्रीणां मुभावप्राप्तिरूपो रसः कथं केन प्रकारेण सिद्धयतीति भावः / कीदृशे / रतिकेलिसंकुलरणारम्भे माराङ्के रतिरणसंकुल

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162