Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 141
________________ 112] सटिप्पणकम् / [सर्गः 12 ____ इत्युक्तप्रकारेण मनसा निगदन्तं गोविन्दं सा सुरतान्ते सादरं जगाद / कीदृशी। नितान्तखिन्नाङ्गी / सा विलुलितस्रग्धरा पूर्वोक्तव्यालोलकेशपाशादियुक्ता श्रीराधा संसिद्धिरूपा पूर्वोक्तप्रकारयुक्ता पश्यन्ती सत्र मां विलुलितस्रग्धरेयं धिनीतीति मनसा नितरां गदयन्तं कथयन्तं न तु मुखतः गोविन्द स्वस्येन्द्रं सुरतान्ते नितान्तमतिशयेन खिन्नानि शिथिलिभूतान्यङ्गानि यस्याः सा सादरमिदं वक्ष्यमाणमानन्देन सोत्साहपूर्वकं नितरां जगाद / ___ रामकली (री) रागण गीयते रूपकताले तथा गौडीरागे / तदेवाह-कुरु यदुनन्दनेत्यादि / कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे। मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे // 1 // निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने // ध्रुवम् // कलशस्य सहोदरो भ्राता तस्मिन् कुम्भसमान इत्यर्थः / कथम्भूते यदुनन्दने / क्रीडति सति / अलिकुलेत्यादि। अलिकुलगजनमजनक रतिनायकसायकमोचने। त्वदधरचुम्बनलम्बितकज्जल उज्ज्वलय प्रियलोचने // 2 // किञ्च हे प्रिय मम लोचने नयने अञ्जनकं कज्जलम् उज्ज्वलय व्यक्तं कुरु / पुनर्देहीति / किम्भूतम् / अलिकुलगञ्जनम् अलीनां कुलं निचयस्तद्ञ्जयतीति तिरस्करोतीति तत्तथा। तत् / पुनः किम्भूतम्। त्वधरचुम्बनलम्बितकज्जलं यस्मिन् तत् / अथवा चिन्मते लोचने त्वदधरचुम्बनलम्बितकज्जले तव अधरस्त्वदधरः तेन चुम्बितं तेन लम्बितं प्रसृतं कज्जलं यस्मिन् तत्तथा तस्मिन् / पुनः किम्भूते लोचने / रतिनायकसायकमोचने रतिनायको मदनः तस्य सायकाः कटाक्षा एव बाणाः तेषां मोचनं क्षेपणं येन धनुःस्वरूपेण तत्तथा / तस्मिन् / नयनकुरक्रेत्यादि / नयनकुरङ्गतरङ्गविकासनिवासकरे श्रतिमण्डले / मनसिजपाशाविलासधरे शुभवेश निवेशय कुण्डले // किश्च / हे शुभवेश श्रीकृष्ण / शोभनो वेशः आकारो यस्य स तथा तस्य सम्बोधन हे शुभवेश श्रीकृष्ण | त्वं कुण्डले विनिवेशय समारोपय / कस्मिन् / श्रुतिमण्डले कर्णप्रदेशे / पुनः किम्भूते / नयनकुरङ्गतरङ्गविकाशनिवासकरे / 1) B opens thus: अथ कान्ता रतिक्लान्ता मयि मण्डनवाञ्छया / निजगाद निराबाधा राधा स्वाधीनभर्तृका // 2) B adds अत्रापि स्वाधीनभर्तृका नायिका / 3 ) B अलीनां भ्रमराणां कुलं समूहम्। 4) B कामः। 5) B तेषां बाणानाम् / 6) B मोक्षणम् /

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162