________________ 28] सटिप्पणकम् [ सर्गः२ शिरोरुहः' इत्यमरः / पुनः किम्भूतं तम् / [ नखलिखितघनस्तनभारम् / ] निखैलिखितौ निबिडौ स्तनभारौ येन तम् / चरणेत्यादि / चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् / मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् // 6 // पुनः किम्भूतया / चरणरणितमणिनूपुरया / चरणयोः परणितौ शब्दितौ मणिभिर्युक्तौ नूपुरौ यस्याः सा तया / पुनः किम्भूतं तम् / परिपूरित. सुरतवितानम् / परि सर्वतोभावेन पूरितः सुरतस्य वितानः विस्तारो येन स तथा तम् / पुनः किम्भूतया। मुखरविशृङ्खलमेखलया। "मुखराः शब्दायमानाः विशृङ्खला मेखला कलापकाञ्ची यस्याः सा तया / किम्भूतं तम् / सकचग्रह चुम्बनदानम् / कचानां केशानां ग्रहः ग्रहणं सकचग्रहणेन वर्तत इति / कृतं सकचग्रहचुम्बनदानं येन स तथा तम् / रतिसुखेत्यादि / रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् / निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् // 7 // पुनः किम्भूतया / रतिसुखमयरसालसया। रतेः सुखं तस्य समयः तस्य रसः तेन अलसा तया / पुनः किम्भूतं तम् / दरमुकुलितनयनसरोजम् / दरः ईषन्मुकुलिते नयने एव सरोजे यस्य स तम् / पुनः किम्भूतया / निःसहनिपतिततनुलतया निःसहा निःप्राणा (1 निष्प्राणा) निपतिता तनुरेव लता यस्याः सातया। पुनः किम्भूतम् / मधुसूदनम् / मधुं दैत्यं सूदितवानिति।1°अथवा मधुना वसन्तेन कामोत्पत्तिद्वारेण पीडा यस्य स तम् / पुनः कथम्भूतम् / उदितमनोजम् / 11मनसि जायत इति मनसिजो मदनः / उदितः उत्पन्नः मनोजो यस्य स तम् / 1) A नखैलिखितौ च तौ घनौस्तनौ च तयोर्भारो यस्य स तम् / A नखैलिख(खि)सः घनस्तनभारो येन स तथा तम् / 2) P leaves out तमणि / 3) P, A drop from पुनः to °नूपुरया। 4) P drors रणितौ। 5) B परिपूरित सुरतस्य वितानं विस्तारो येन स तम् / 6) P, A drop this प्रतीक 7) P. A add before मुखराः the folio; wing. अपगते त्यक्ते कृते बन्धनशृङ्खले यस्याः सा तया / अवस्य अकारलोपः / These words presuppose ar altogether different reading. P, A add विशृङखलेति पाठेऽयमेवार्थः। 8) Bdrops from कचानां to वर्तत इति / 9) B रशालशया / 10) B drops from अथवा to पीडा यस्य स तम् / 11) B drops from मनसि to मदनः /