Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 5] गीतगोविन्दकाव्यम् [89 हे मुग्धे विरहिते / अयं प्रियः स्वयमुपस्थितः समीपमागतः। किम्भूतः। अतिशयस्निग्धः अतिशयेन स्निग्धः 'स्नेहेन युक्तः, अतो मानं मुश्च जहीहि / किं तर्हि करोमि। तत्राह / हे तन्वि / वृथा निरर्थकं मौनं 'मां व्यथयति / अतस्त्यज / तथा पञ्चमस्वरं प्रपञ्चय विस्तारय / किञ्च / हे तरुणि / तापं विनोदय निवर्तय / कैः। मधुरालापैः मधुराश्च ते आलापाश्च परिहासकथास्तैः। हे सुमुखि सुरूपं शोभनं मुखं यस्याः सा तथा तस्याः सम्बोधनम् / हे सुमुखि तावदिति साकल्ये विमुखीभावम् अधःसन्नतां विमुञ्च / काभिः। दृष्टिभिः स्निग्धालोकैः। बन्धूकेत्यादि। बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् / नांसाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः // 5 // हे प्रिये स पुष्पायुधो मदनः प्रायो बाहुल्येन त्वन्मुखसेवया विश्वं विजयते / जगज्जयतीत्यर्थः। तव मुखं तस्य सेवा तया। मुखे कामदेवस्य पञ्चपुष्पबाणवद्वर्तन्त एतानि / कुतः। तवायं अधरश्चकास्ति शोभते / किम्भूतः / बन्धुकधुतिबान्धवः बन्धूकं रक्तपुष्पं तद्वत् द्युतिः कान्तिः तस्याः बान्धवः तद्वल्लोहित इत्यर्थः। हे चण्डि सुन्दरि / तव गण्डः चकास्ति भासते। किम्भूतः। स्निग्धः स्निग्धो वत्सलचिक्कणो(? चिक्कणे ) / पुनः किम्भूतः। मधूकच्छविः मधूकपुष्पस्येव छविर्दीप्तिर्यस्य स तथा। तथा तव लोचनं चकास्ति शोभते / किम्भूतम् / नीलनलिनश्रीमोचनम् / नीलनलिनस्य नीलोत्पलस्य श्रियं कान्ति मोचयतीति / तिरस्करोतीत्यर्थः। तथा च ते नासा नासिका अभ्येति गच्छति / काम् / तिलप्रसूनपदवीम् / अपि च / हे प्रिये कुन्दाभदन्ति कुन्दवदन्ता यस्याः सा तथा तस्याः सम्बोधनं हे कुन्दाभदन्ति / अनेन तव वदनस्य दासत्वं करोतीत्यर्थः। दृशावित्यादि / दृशौ तव मदालसे वदनैमिन्दुसंकाशकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् / 1) B drops स्नेहेन युक्तः। 2 ) B drops मां। 3 ) B drops निवर्तय। 4 ) A विमुखीभावम् अध-सन्मुखतां विमुञ्च / 5 ) B स्निग्धालोकनैः। 6 ) B नासान्वेति। 7) B शोभया। 8) पञ्च बाणा वर्तन्ते। 9) B drops from स्निग्धो to चिक्कणो। 10 ) B मिन्दुवद्दीपकं / 12

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162