Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोक 8] श्रीगीतगोविन्दकाध्यम् / [103 तैः सुभगं सुन्दरं शरीरं यस्य स तथा तम् / 'पाठान्तरे / किम्भूतम् / भूषणमणिगणकिरणविशङ्कितविरहदहनपरिवारंभूषणानां मणिगणः समूहः तस्य किरणाः अंशवः तैः विशङ्कितो विशेषेण शङ्कायुक्तो विरहदहनो विरहाग्निस्तस्य परिवारो यस्य स तथा तम् / श्रीजयदेवेत्यादि। श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् / प्रणमत हृदि विनिधाय हरिं सुकृतोदयसारम् // 8 // हे भक्तजनाः हरिं श्रीकृष्णं हृदि अन्तःकरणे सुचिरं विनिधाय प्रणमत / किम्भूतम् / सुन्दरमतिशयेन अतिसुन्दरं शोभनं विभवविभूषणभारम् / भूषणानां भारः समूहो विभव ऐश्वर्यम् अतिशोभितो विभवविभूषणभारो यस्य स तथा तम् / पुनः किम्भूतम् / श्रीजयदेवभणितम् / अथवा श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् / श्रीजयदेवस्य भणितं गीतं तस्य विभवः तेन द्विगुणीकृतो भूषणभारो यस्य स तथा तम् / पुनः किम्भूतम् / सुकृतोदयसारं पुण्योद्गमस्य बलमित्यर्थः। सुकृतस्य पुण्यस्य उदयः उत्पत्तिः तस्य सारः सारभूतं कारणं ददर्शत्युक्तम् / तत्र दर्शनान्तरं जातमर्थ श्लोकाभ्यां दर्शयन्नाह श्रीजयदेवकविः, अतिक्रम्येति / अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः। इदानीं राधायाः प्रियतमसमालोकसमये "पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः // 8 // इदानीं राधायाः अक्ष्णोः नयनयोः हर्षाधुनिकरः पपात / हर्षेण अश्रणि तेषां निकरः आनन्दाश्रुसमूह इत्यर्थः / इदानीमिति किम् / इह प्रियतमसमालोकसमये अतिशयेन प्रियो वल्लभः प्रियतमः तस्य आलोको दर्शनं तस्य समयः क्षणः तस्मिन् / क इव / स्वेदाम्बुप्रसर इव / स्वेदरूपं अम्बु पानीयं तस्य प्रसर इव / केनेव / अपाङ्गं नेत्रान्तम् अतिक्रम्य श्रवणपथपर्यन्तप्रयासेनेव / श्रवणयोः श्रोत्रयोः पन्थाः श्रवणपथः तस्य पर्यन्तः परिसमाप्तिः तत्र गमनं तेन प्रयासेनेव प्रयासजेनेव / कथम्भूतयोः अक्ष्णोः तरलतरतारं यथा स्यात्तथा पतितयोः प्राप्तयोः चञ्चलाक्षिकनीनिकम् / 'कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका' इत्यमरः / 1) B drops from पाठान्तरे to स तथा तम् / 2) B सुन्दरं शोभनविभवविभूषणभारम् / 3) A तारमिति तयोः। B भावं गमितयोः। 4) A प्रयातः स्वेदाप्रसर इव। 5) A drops पानीयं /

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162