Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोक 2] गीतगोविन्दकाव्यम् [45 कृष्णमदृष्ट्वा मिथ्येति मत्वा विलपति विविधं जल्पति तथा उत्कम्पते विरहजनितकम्पाक्रान्तमनस्का भवति। तथा ताम्यति कृष्णो नायासीदिति मत्वा कानि (? क्लान्ति)मधिगच्छति / तथा कृष्णो ममैवं मुनचुम्बनालिङ्गनस्तनावमर्दनादिकं विधास्यतीति ध्यायति चिन्तयति / तथा कृष्णो मां न चुचोद अहं च त्यक्तपतिकैकाकिनी गहनं च वनं रात्रिरतिभीषणा इति मत्वा उद्ममति उद्भ्रान्तचित्ता भवति / तथा निर्जनं वनं निरीक्ष्य सभयमानसा सती लतादिपिहितमध्यप्रदेशान्धकारे पिशाचदिक(? पिशाचादिक)माशङ्कय प्रमीलति नयननिमीलनं विदधाति / तथा भवत्प्राप्तिकामनयाग्रतो गत्वा तत्रादृष्टपूर्वमतिभयनिदानं दृष्ट्वा पश्चाद्वलिता सती पतति भूमाविति शेषः। तथाशोकमूले चूतमूले वा कदम्बमूले वा कृष्णो निवसतीति बुद्ध्वा दृढं नीवीं परिबध्य तत्र नमूलं (1 तन्मूलं) उद्याति धावति / तत्र तत्रादृष्टा मूर्छत्यपि मूञ्छितमनस्कापि भवति / हे स्ववैद्यप्रतिम स्वर्गे वैद्यौ नासत्यौ तत्प्रतिमस्तत्तुल्यः तस्य संबोधनं हे स्ववैद्यप्रतिम श्रीकृष्ण एतावति एवंविधे विविधपरिपांकयति ( ? परिपाकवति) अतनुज्वरे कामज्वरे विद्यमाने सा राधा ते तव रसात् त्वद्दत्तकन्दर्परसात् किं न जीवेदपि तु जीवे. दिति त्वया कामरसः तस्यै तदातव्यो( ? प्रदातव्यो )ऽन्यथा नियेतेत्यर्थः / गूढाभिप्रायं प्रार्थयित्वा पुनरालिः श्रीकृष्णं प्रत्याह / हे रतिपण्डित त्वं यदि प्रसीदसि प्रसादं विधत्से तस्या उपस्थितोऽपि अन्तको मृत्युस्त्यक्तो गतो भविष्यत्यन्यथा न / स्मरातुरामित्यादिश्लोकः। 'स्मरातुरां दैवत वैद्य कृत्य त्वदङ्गसङ्गामृतमात्रसाध्याम् / *विमुक्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि // 2 // हे दैवत इष्टदेव / हे वैद्यकृत्य वैद्यानां कृत्यं कार्यं यस्मिन् स तथा तस्य सम्बोधनम् / अथवा / " दैवतं देववैद्ययोः" / तस्य संबोधनम् , हे धन्वन्तरे हे उपेन्द्र श्रीकृष्ण वज्रादपि दारुणोऽसि / निष्ठुरोऽसि / यतो विमुक्तबाघां राधा न कुरुषे। किम्भूताम् / स्मरातुराम् / स्मरेण कन्दर्पण आतुरां पीडिताम् / किम्भूताम् / स्वदङ्गसङ्गामृतमात्रसाध्याम / तव अहं शरीरं तस्य सङ्गः स एव अमृतम् / तन्मात्रेण साध्यां रक्षणीयाम् / 'वृत्तमपि उपेन्द्रवज्रा। 1, A reads the verse सा रोमाञ्चति...first and then: उपेन्द्रवज्रादपि निष्ठुरोऽसि स्मरातुरां दैवतवैद्यकृत्य / विमुक्तबाधां कुरुषे न राधां त्वदङ्गसङ्गामृतमात्रसाध्याम् / 21 P, B हृद्य; but in the commentary we have °कृत्य। 3) P व्यपेतबाधां; but in the commentary we have विमुक्तबाधां। 4) P. drops कृत्यं; A, however, explains दैवत thus. हे दैवत इष्टदेव / हे वैद्यकृत्य वैद्यानामिव कृत्यं रोगहारित्वं यस्य तस्य संबोधने यद्वा हे दैवतवैद्यकृत्य देवानां वैद्यावश्विनीसुतो ( ? तौ ) तयोरिव कृत्यं यस्य / हे धन्वन्तरे / 5) P adds अधिकं यथा स्यात्तथा वज्रादपि दारुणो निष्ठुरः। 6) A यतो. राधां विमुक्त बाधां / B drops राधां / 7) B drops वृत्तमपि उपेन्द्रवज्रा।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162