Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ नवमः सर्गः मुग्धमुकुन्दः / तामित्यादि। तामथ मन्मथखिन्नां रतिरभसभिन्नां विषादसंपन्नाम् / अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रंहः सखी // 1 // अथानन्तरं तां राधां प्रति सखी उवाच। किम्भूताम् / मन्मथखिन्नां मनो मथ्नाति क्षोभयतीति मन्मथा मारः तेन खिन्नां खेदयुक्ताम् / पुनः किम्भूताम् / रतिरसभिन्नां रतेः रसः सुरतसुखं तस्माद् भिन्ना अन्तरिता ताम् / "पुनः किम्भूताम् / कलहान्तरितां कलहेन विवादेन हरेः अन्तरिता ताम् / किमुवाचेत्याशङ्कयाह / - गुर्जरीरागे यतिताले / हरिरभिसरतीत्यादि। 'हरिरभिसरति वहति मधुपवने / किमपरमधिकसुखं सखि भुवने // 1 // माधवे मा कुरु मानिनि मानमये // ध्रुवपदम् // सखी वदति / अये सखि राधे / माधवे मानं मा कुरु। यतो हरिरभिसरति। त्वत्सङ्गमं वाञ्छति / स्वप्रेयसीनां कामव्यथां हरतीति हरिः। कस्मिन् सति / मधुपवने वहति सति / मधोर्वसन्तस्य पवनः तस्मिन् / 10अभिसरतु नाम, ततः किं फलं, तदाह / हरेरभिसरणजातं अधिकम् अपरं सुखं 11भुवने किं वाञ्छसि। तालफलेत्यादि / तालफलादपि गुरुमतिसरसम् / किं विफलीकुरुषे कुचकलशम् // 2 // ___ 1) B अथ ता। 2) P, A drop रहः / 3) A, B drop तां / 4) A अनु पश्चाच्चिन्तितं हरेश्चरितं यया तां कलहान्तरितां कलहे विवादे अन्तरिताम् / B पुनः कथंभूताम् / अनुचिन्तितहरिचरिताम् / अनु पश्चाच्चिन्तितं हरेश्चरितं यया सा ताम् / किमुवाचेत्याशङ्कयाह / 5 ) P गूर्जरीरागे यतिताले; A गुजरीरागे; B गुर्जरीरागेण गीयते रूपकताले / अत्र कलहान्तरिता नायिका / 6) हरिरनुसरतीत्यादि B हरिरभिसरतीति / 7) P हरिरुपसरति / 8) B तत्सङ्गमं / 9) B drops from स्व to हरिः। 10 ) B drops from अभिसरतु to तदाह / 11 ) A, B भवने /

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162