Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ [15 गीतगोविन्दकाव्यम् श्रीजयदेवेत्यादि श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् / सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् // 8 // इदं गीतं श्रीजयदेवभणितम् / उदयति राजते किम्भूतम् / हरिचरणस्मृतिसारम् / हरेश्चरणौ, तयोः स्मृतिः स्मरणम्, तत्र सारं मुख्यसेवनभूतम् / पुनः किम्भूतम् / अनुगतमदनविकारम् / अनुगतोऽनुस्फुरितो मदनेन विकारो यस्मिन् / *पथिकवधूजनजनितविलापे इत्यस्याभिप्राय वसन्ते श्लोकाभ्यां स्पष्टयति ।दरविदलितेत्यादिदरविदलितमल्लीवल्लिचञ्चत्पराग प्रकटितपटवासैर्वासयन् काननानि / इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणपाणवद्गन्धवाहः // 1 // हे राधे / गन्धवाहः मलयजो वायुः इह वसन्ते विरहिणीनां [विरहिणां] चेतो दहति / किं कुर्वन् / वासयन् सुगन्धयन् / कानि / काननानि / कैः कृत्वा / दरविदलितमल्लीवल्लिचञ्चत्परागप्रकटितपटवासैः / दरविदलिता ईषद्विकसिताश्च ता मल्लीवल्ल्यश्च / तासु चञ्चन्तः इतस्ततो गच्छन्तः ते च ते परागाश्च पुष्परेणवश्च सुगन्धिवस्तुचूर्णानि च / अथवा तैः परागैः प्रकटितपटुवासाः प्रकटिताश्च पटु(? पटवः) उत्कृष्टाश्च ते वासाश्च तैः। 'तनु विरहिणां दहति / किम्भूतः। प्रसरदसमबाणप्राणवत् / प्रसरंश्चासौ असमबाणः कन्दर्पश्चेति तस्य प्राण इव समान इव भवतीति प्राणवत् / पुनः किम्भूतः। केतकीगन्धबन्धुः / केतकीनां गन्धः तस्य बन्धुः सहवासी / उन्मीलनेत्यादिउन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः / नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण प्राप्तमाणसमासमागमरसोल्लासैरमी वासराः // 2 // 1) B इति किम् 2) B मुख्यं सेवभूतम् / 3) B मदनस्य 4) B drops the whole sentence (from पथिक to स्पष्टयति) 5) E गन्धयन्. 6) B पुष्परसा च ते प्रकटितपटवासाश्च सुगन्धिसुपूर्णानि च अथवा तैः प्रकटिताश्च ते पटुवत्कृष्टाश्च ते वासा च तैः / 7) B drops the sentence. 8) B कलरवै.

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162