Book Title: Collection Of Jaina Philosophical Tracts Author(s): Nagin J Shah Publisher: L D Indology AhmedabadPage 32
________________ श्रीमेरुतुङ्गसूरिसंहव्धः 2 तथा वेदा अपौरुपेया इत्ययुक्तम् । यत शास्त्रं वचनात्मकम्, वचनं च पुरुषताल्वोष्ठादिव्यापारं विना न काप्युपलभ्यते । अतोऽपौरुषेयत्वाभावान्न नित्या वेदाः । किञ्च, नित्या वेदाश्चेत्तर्हि किमुपलभ्यस्व [ 3A ]भावा अनुपलम्यस्वभावा वा ± । अत्र पक्षद्वयेऽपि दोष' । नित्यत्वेन सर्वदोपलम्भस्यानुपलम्भस्य वा प्रसङ्गात् । अन्यथा, स्वभावहान्या अनित्यत्वापत्ते । ततोऽपौरुषेया नित्यास्तु वेदा न भवन्तीति न ते प्रमाणम् । "वेदा अवेदा यज्ञा अयज्ञा" इति श्रुतिप्रामाण्यात् । गीतायामप्युक्तम् — ac यामिमां पुष्पितां वाचं प्रवदन्ति विपश्चितः । वेदवादरता पार्थ' नान्यदस्तीति वादिन' | कामात्मान स ( स्व ) र्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यफलं प्रति ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धि समाधौ न विधीयते ॥ त्रैगुण्यविपया वेदा निस्त्रैगुण्यो भवार्जुन । । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ [ भगवद्गीता, २ ४२-४५] इति किन, सुधाभुजो देवा अत. कथं गोमेधादिषु हुह्यमाना गवादिपलं भुञ्जते एवमेषामपि पलाद त्वप्रसङ्गात् । न च यागादिक्रिया स्वर्गं साधयन्ति । यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥ इति भट्टारक श्रीशुकवचनात् । तस्माद्, अहिंसा-सयम-तपोरूप आत्मयज्ञ एव स्वर्गादिसाधनम् । उक्तं चइन्द्रियाणि पशून् कृत्वा वेदीं कृत्वा तपोमयीम् । a अहिंसामाहुतिं दद्यादेष यज्ञः सनातन || सांख्यमते अकर्ता निर्गुणो भोक्ता पुरुष । गुणत्रयाणां साम्यावस्था प्रकृति' । सा च प्रधानाव्यक्तसंज्ञाम्या वाच्या । प्रकृतेश्च महदुत्पद्यते बुद्धिरित्यर्थः । महतोऽहंकारः । अहङ्काराद् द्विधा सृष्टिरेकादशक - दशकगणरूपा । तत्रैकादशक । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्च । ढाकगणश्च शब्द-रूप- गन्ध-रस-स्पर्शास्तेभ्यो नभस्तेज पृथिव्यम्भोवायव पञ्चभूतानीति पञ्चविंगतितत्त्वानि । तेपां च ज्ञानान्मोक्षः । उक्तं च १ हे अर्जुन ! २ 'गर्ति इति मुद्रितभगवद्गीतायाम् । ३ शाश्वतो यज्ञ ।Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193