Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 173
________________ प्रमाणसुन्दरः । ... .तस्मादुभयमानेन व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥इति॥ [ श्लोकवा० आत्म०२८] किञ्च, आत्मैव हि सुखदुःखादिपर्यायतया परिणमति नोलाद्याकारतया स्वपरग्रहणशक्तिद्वयात्मतयैकविज्ञानवत् । न खलु ययैव शक्त्याऽऽत्मानं प्रतिपद्यते विज्ञानं तयैवार्थं तयोरभेदप्रसङ्गात् । अन्यथा आत्मनो येन रूपेण सुखपरिणामस्तेनैव दुःखपरिणामोऽप्यनयोर्भेदो न स्यात् । न च तच्छक्तिभेदे तदात्मनो ज्ञानस्यापि भेदोऽन्यथैकस्य स्वपरग्राहकत्वं न स्यान्नापि चित्रज्ञानस्य नीलाद्यनेकाकारतया परिणामेऽप्येकाकारतया व्याघातस्तद्वत् सुखाद्यनेकाकारतया परिणामेऽप्यात्मनो नैकत्वव्याधातो विशेषाभावात् । - तत्रार्थान्तरे विसदृशपरिणामो व्यतिरेकः । तथा कस्मादर्थात् सजातीयो विजातीयो वाऽर्थोऽर्थान्तरं . तद्गतोऽन्यादृशः परिणाम इति गोमहिषादिवत् । यथा गोषु खण्डमुण्डादिलक्षणो विसदृशपरिणामः, महिषेषु च विशालविसङ्कटत्वलक्षणः, गोमहिषेषु चान्योन्यमसाधारणस्वरूपलक्षण इति । ____ ततः सामान्यविशेषयो. परापेक्षपरानपेक्षभेदेनानुवृत्तव्यावृत्तप्रत्ययलक्षणवस्तुधर्मार्थ क्रियाकारित्वेनामेदाद् वास्तवत्वं सिद्धमेव । न चार्थस्य सामान्यविशेषात्मकत्वेन ग्राहकप्रमाणाभावोऽनेकधर्मत्वात्। तथाहि-वास्तवानेकधर्मात्मकोऽर्थः, परस्परविलक्षणानेकार्थक्रियाकारित्वात् पितृपौत्रभ्रातृभागिनेयाद्यर्थक्रियाकारिदेवदत्तवत् । न चायमसिद्धो हेतुः, आत्मनो मनोज्ञागनानिरीक्षणस्पर्शनमधुरध्वनिश्रवणव्याहारचंक्रमणावस्थानह विषादानुवृत्तव्यावृत्तज्ञानाद्यन्योन्यविलक्षणानेकार्थक्रियाकारित्वेनाध्यक्षतोऽनुभवात् । तथा दूरेतरदेशवर्तिनः पादपस्य पूर्वोत्तरप्रत्ययैकविषयत्वेऽपि सामान्यविशेषापेक्षया त्वस्पष्टेतरविषयभेदादेकान्तानुषङ्गभङ्गः प्रतीत एव यथा तन्तुपटयोरिवात्राभिन्नप्रमाणग्राह्यत्वेनावयवावयविगुणगुणिप्रभृतीनां कथञ्चिद्भेदाभेदप्रसिद्धेर्भिन्नप्रमाणग्राह्यत्वमसिद्ध यतस्तन्तव एवातानवितानीभूता अवस्थाविशेषविशिष्टाः पटो(ट उल्लेखितस्ततो न तन्तुभ्योऽर्थान्तरं पट इति । प्रमाणं हि यथावस्तु विवेचकम् । यत्रात्यन्तभेदग्राहकं तत् तत्रात्यन्तभेदो यथा घटपटमुकुटादौ, यत्र कथञ्चिद् भेदग्राहकं तत्र कथञ्चिद् मेदो यथा तन्तुपटादाविति, पूर्वोत्तरकालभावित्वाद्यप्यवस्थाभेदमेव तन्तूनां प्रसाधयति नात्यन्तिकभेदम् । अत्र तु वस्तुन आत्मानौ द्रव्यपर्यायौ, तयोर्भावः तादात्म्यम्, भेदात्मकत्वं वस्तुनो भेद' पर्यायतैव, अभेदस्तु द्रव्यरूपत्वमेव, भेदाभेदौ तु द्रव्यपर्यायस्वभावावेव । न खलु द्रव्यमानं पर्यायमानं वा वस्तु, उभयात्मनः समुदा १ स्वसंवेदनप्रत्यक्ष-अनुमानप्रमाणाभ्याम् । २. ज्ञानार्थयो ।

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193