Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 184
________________ श्रीपद्मसुन्दरविरचितः णयविही इत्यागम', [अनुयोगद्वार ६०६], यथा 'सुखसण. सम्प्रत्यस्ति' इति पर्यायमात्रग्राहित्वादधिकरणभूतस्य यस्य सतोऽप्यनर्पणादतीताऽनागतक्षणयोस्तु विनष्टानुत्पन्नत्वेनासम्भवान्नैवं लोकव्यवहारोच्छेदप्रसङ्गोऽस्य नयस्यैवं विषयमात्रप्ररूपणालोकव्यवहारस्तु सकलनयसमूहसाध्य इति । योऽन्तर्वहि सर्वथा द्रव्यं प्रतिक्षिपति पर्यायग्रहणादेव स तदाभासः प्रतिक्षण क्षणिकत्वाभिमानात् तथागतमतवदिति । ___ कालकारकलिङ्गसख्यादिभेदाद्भिन्नमर्थं शपतीति शब्दो नय' शब्दप्रधानत्वात् । ततोऽपास्त वैयाकरणानां मतम् । ते हि 'धातुसम्बन्धे प्रत्ययाः' इति [पा० ३.४.१] सूत्रमारभ्य विश्वदृश्वास्य पुत्रो भवितेत्यत्र कालभेदेऽप्येकं पदार्थमादृत्य यो विश्वं द्रक्ष्यति सेऽस्य पुत्रो भवितेति भविष्यत्कालेनातीतकालस्य भेदाभिधानात् । तच्चानुपपन्नं कालभेदेऽप्यर्थाभेदेऽतिप्रसङ्गात् । न खल विश्व दृष्टवान् विश्वदृश्चेति शब्दस्य योऽर्थः अतीतकालः स भवितेत्यस्याऽनागतकालो युक्त', पुत्रस्य भाविनोऽतीतत्वविरोधात् । अत्रातीतस्याप्यनागताध्यारोपादेकार्थत्वे तु न परमार्थत कालभेदेऽप्यभिन्नार्थव्यवस्था स्यात् । तथा करोति कटं देवदत्तस्तेन वा कटः क्रियतेऽत्राभिन्नमेवार्थ कारकमेदेऽप्याद्रियन्ते । तदसम्यक् तथा सत्यखिलकर्तृकर्मणोदेवदत्तकटयोरभेदप्रसङ्गात् , तथा मुत्प्रमोद इत्यत्र लिङ्गभेदेऽपि हर्षार्थमेकमेवाद्रियन्ते तटीतटयोरेकार्थवत् तदसम्यक्, तथासति कुटीपटयोरप्यभेदप्रसङ्गात् । तथाऽऽपोऽम्भ इत्यत्र सङ्ख्याभेदेऽपि सलिलार्थमेकमेव मन्यन्ते सङ्ख्याभेदस्याभेदकत्वाद् गुर्वादिवत् तदपेशलं पटस्तन्तव इत्यत्राऽप्येकत्वानुषगात् । आदिशब्दादुपसर्गादिभेदेऽप्यभेदं मन्यन्ते सन्तिष्ठते प्रतिष्ठत इत्यादौ धात्वर्थमात्रोद्योतकत्वादसम्यक्, तथासति तिष्ठति प्रतिष्ठत् इत्यादौ स्थितिगत्योरप्यभेदप्रसङ्गात् । ततः कालादिभेदाद् भिन्न एवार्थः शब्दस्य नयो विवादापन्नो विभिन्नकालादिशब्दो विभिन्नार्थप्रतिपादको विभिन्नकालादिशब्दात् तादृशाऽपरशब्दवत् । तथासति हि लोकसंव्यवहारोच्छेदप्रसङ्गः शब्दनयाद, उच्छिद्यतां तावत् , तत्त्वं तु मोमांस्यते, न हि जात्युत्तरस्पृहानुवृद्धिः । कालादिभेदेन तमेवार्थ समर्थयमाणः शब्दाभासः । पर्यायशब्दभेदात् समेत्याभिमुख्येनार्थभेद रूढः समभिरूढो, यथेन्द्रः शक्रः पुरन्टरः इत्यादय शब्दा विभिन्नार्थगोचरा विभिन्नशब्दत्वाद् वाजिवारणशब्दवदिति । 'वत्थूओ सकमण होइ अवत्थु णये सभभिरूढे' इत्यागमात् [अनुयोगद्वार ६०६] । तेप्वेव शब्देषु भिन्नाभिधेयतामाचक्षाण' तदामासः । एवमित्थं विवक्षितक्रियापरिणमनभेदेन भूत परिणतमर्थे योऽभिप्रेति स एवम्भूतो नयः । समभिरूदैवंभृतयोरिदमन्तरम्-समभिरूढो हि गतिक्रियायां सत्यामस

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193