Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
स्याद्वादसिद्धिः
१६३
पुनश्च सिद्धस्याप्यसिद्धत्वं स्यात् ।
तथा च येन प्रमाणेन सर्वस्यानेकान्तत्वं साध्यते तस्य प्रमाणस्यानेकान्तात्मत्वात् कुतस्तत्सिद्धिः १ यद्यपि यथाकथञ्चित् सिद्धे स्वतो वा परतो वा ? यदि स्वतस्तर्हि किं प्रमाणपरिकल्पनया ? अथ परतस्तर्हि अनवस्थादौस्थ्य च ।
तथा च, कर्म अन्येन कृतमन्येन भुक्तमित्यपि कथं न घटामटाट्येत भवन्मते सर्वस्याप्यनेकान्तात्मकताङ्गीकारात् ।
__किञ्च, प्रकरणसमावतारस्यापि दुर्निवारत्वात् । तत्प्रयोगश्च-भेदाभेदादिको नैकाधिकरणसमानाधिकरणौ विरुद्धधर्मिद्वयधर्मवत्त्वात् शीतोष्णस्पर्शवदिति । यत्र यत्र परस्परविरुद्धधर्मिद्वयधर्मवत्वं तत्र तत्र नैकाधिकरणे विरुद्धधर्मिय मामान्याधिकरण्यं यथा रक्तः घटो न नील', तथा चेदम् तस्मात्तथेति । तस्मात् सिद्धं नः समीहितम्एकान्तरूपं वस्त्विति ॥
___ अथ प्रज्ञापयन्ति सकलप्रज्ञालचक्रवालशिरोमणिकल्पाः स्याद्वादितल्पाः । अतुच्छस्वच्छमतिप्रकरप्रकारोल्लासोच्छ्वसितयुक्तिशक्तिप्रबलवात्यापात्यायुधोन्क्षिप्तकुमतिमतिप्रचारवनगहनपवनानामस्माकमने कतिपयतर्कविचारवतो भवतोऽतुलप्रबलशृड्खलानिगडितपदोत्प्लवनाभ्यसन वरीवर्ति यतोऽस्माभिरेकेनैव हि रूपेण मेदामेदयोरभिधाने विरोधः सिद्धयेत् । न चैवेत्थं प्रतिपाद्यते येन विरोधादीना सिद्धिः प्रसिद्धयतीति । न चैव जैनानां स्याद्वादवादोऽभीष्ट इति वाच्यम् । नैयायिकादीनामपि प्रत्यक्षानुमानागमयुक्तिसाध्यमक्षरान्तरैराख्यातं स्याहादं मन्यमानानां स्याद्वादगजो न कथं प्रसर्पतीति । तथाहि - सकलगास्त्रे पक्षद्वयं जातिपक्षो व्यक्तिपक्षश्च, तत्र जाति. सामान्यं, व्यक्तिरत्र विशेष इति वचनात्, सामान्ये तु सर्वेषामेव नित्यत्वं सत्ताप्रतिपादनपरत्वाद् यथा गोत्वाश्वत्वादिक नित्यम् , न तु गौरश्वो वा नित्यः । व्यक्तिपक्षे त्वनित्यमेव । य एव जातिपक्षः स एवास्माकं जैनानां द्रव्यार्थिकनयः । यो व्यक्तिपक्षः स एवास्माकं पर्यायार्थिकनयः । ताभ्यां नित्यानित्यत्व च समादध्मः । यद् आह अस्मदागमः-'जीवा सिय सासया सिय असासया गोयमा | दव्वआए सासया भावट्टयाए असासया' इति [भगवती ७. २. २३] । ननु शृणुत भो नैयायिकादयः ! भवन्मतेऽपि पदार्थास्ते नित्यानित्याश्च विचार्यमाणाः सपश्यन्ते । तथाहि-पृथिव्यप्तेजोवायुनां नित्यानित्यत्वं न्यायशास्त्रे, कार्यरूपमनित्य परमाणुरूपं नियमिति वचनात् सुप्रसिद्धमेव । अन्यथा 'अप्रच्युतानुत्पन्नस्थिरैकरूपनि(पं नि)त्यम्' इति लक्षणेन नित्यस्य सर्वस्यैक्यरूपत्वेन सर्वदा सत्त्वप्रसङ्गः । आकाश
Page Navigation
1 ... 187 188 189 190 191 192 193