Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
स्याद्वादसिद्धिः] स्याद्वादवादामृतपानतोयैर्वादाहवेऽप्राप्यजरामरत्वम् ।
सूरीश्वरास्ते हरिभद्रमुख्या जयन्तु सद्बोधविजृम्भमाणाः ॥ पण्डितंमन्यान्यदर्शनिनैयायिक-बौद-साङ्ख्यकापिलादिविजिगीषूणां स्याद्वादवादिनां जैनानामेन स्याद्वादज्ञानं सर्वज्ञानरहस्यभूतं त्रैलोक्यलोकाकलितवस्तूनां स्वरूपं समुज्जम्भते सर्वत्र । अथातस्तल्लक्ष्यते
एकस्मिन् वस्तुनि विरुद्धधर्मद्वयसमावेश. स्याहादः । अथवा विरुद्धधर्मद्वयप्रतिपादनपरो वक्तुरभिप्रायविशेषः स्याद्वादः, अथवा वस्तुस्वरूपप्रतिपादनपरः श्रुतविकल्पः स्याद्वादः, अथवा एकैकस्मिन् वस्तुनि सप्रतिपक्षानेकधर्मस्वरूपप्रतिपादनपर. स्याद्वाद. ।
___ अथ प्रथमं लक्ष्यते-एकस्मिन् जीवाजीवादौ विरुद्वं यद् धर्मद्वयं नित्यानित्यास्तित्वनास्तित्वोपादेयानुपादेयाभिलाप्यानभिलाप्यादिलक्षणं, तस्य समावेश समाश्रयः स्याद्वाद इत्यर्थः ।
अथ स्याद्दादमसहमाना परवादिनः प्रकटयन्ति-ननु भोः ! अनेकन्यायशास्त्राध्ययनप्रवीणपराक्रमाः परमार्हताः! एकस्मिन् वस्तुनि नित्यानित्यभेदाभेदसत्त्वासत्त्व-सामान्यासामान्याभिलाप्यानभिलाप्याद्यात्मके मन्यमाने कथं न त्वन्मतेदुर्द्धरविरोधगन्धसिन्धुरधुरन्धरता स्याहादवादरणप्रगुणबलकुलोत्सर्पणाय प्रभवति शीतोष्णयोरिव सुखदु.खयोरिव शीतातपयोरिव परस्परसहानवस्थानलक्षणविरोधात् । दृश्यते च प्रत्यक्षप्रमाणसाहचर्यतर्ककर्कशसस्पर्शमात्रेण यत्र नित्यत्वं कथमनित्यत्वं, यद्यनित्यस्तर्हि कथं नित्यः, यदि सत्त्वं कथमसत्त्वादिरिति विरोधः स्पष्ट एवेति । ___यदि मेदस्याधिकरणं तर्षभेदस्य न भवेद्, यथाऽभेदस्य तर्हि मेदस्य न स्यात् शीतोष्णस्पर्शवत् । न हि देवधूपदहनादिकं शीतं तदेवोष्णमुपलभ्यते, तथाप्रत्ययस्यासम्भवात् । अतो वैयधिकरण्य समापनीपोत ।
तथा च व्यतिकरनामदूषणं सगच्छते । तथाहि—येन रूपेण भेदस्तेनाभेदोsपीति समर्थकदर्थनाद् व्यतिकर', परस्परविपयगमनं व्यतिकर इति तल्लक्षणात् ।
___ तथा च येन रूपेण भेदस्तेन वाऽभेदो येन वाऽभेदस्तेन भेद इत्यत्रापि भेदाभेदावपि प्रत्येकं भेदाभेदात्मकौ स्यातां, सर्वमनेकान्तात्मकमिति सिद्धान्तात् । तदा च तस्मिन् मेदाभेदे पुनस्तस्मिन् भेदाभेदपरिकल्पनया अनवस्थादौस्थ्यसस्थापनं सगच्छेत् । यदि न भेदाभेदौ प्रत्येकं भेदाभेदात्मको तदा सर्वमनेकान्तात्मकमिति सिद्धान्तो विरुद्धचेत ।
२१
Page Navigation
1 ... 185 186 187 188 189 190 191 192 193