Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१६४
स्याद्वादसिद्धिः
काल-दिशामपि नित्यानित्यत्वं प्रत्यक्षप्रसिद्धमेव, घटाकाशो नष्टः पटाकाशो नष्ट इति प्रतीते. । आत्माऽपि तव मते नित्यानि य.], स च देहेन्द्रियव्यतिरिक्तः विभुनित्यश्चेति वचनात्, तक्रकौडिन्यन्यायेन पारिशिष्यानुमानेन देहाश्रितोऽनित्य एवेति । मनसोऽपि नित्यानित्यत्वमेव सकलदेहव्यापित्वाद् , देहस्यानित्यत्वाद् आश्रयनाशे सत्यायिणोऽपि नाश इति न्यायात् अनित्यमेव; अभावोऽपि नित्यानित्य एव । अनादि-सान्त. प्रागभावः, सादिरनन्त. प्रध्वंसाभावः, अनादिरनन्तोऽत्यन्ताभावः, अनादिनित्य. ससर्गाभावोऽन्योऽन्याभाव. इति नित्यानित्य. स्पष्ट इति । ननु भो. ! आकाशदिपञ्चकं नित्यम् , अपरं नित्यानित्यमिति सप्तपदार्थविवरणे प्रतिपादितत्वात् । भवता तु नवानामपि पदार्थानां नित्यानित्यत्वमुक्तमतस्त्वद्वचनेन सह विरोध । तथाहि-आकाश-काल-दिगात्मपञ्चकं नित्यं विनागराहित्यमिति यावत् , प्रयोगश्चाकाशादिपञ्चकं नित्य, निरवयवद्रव्यत्वात् परमाणुवदिति । अत्रोच्यते सत्ताविनाशाभावापेक्षया नित्यत्वम् , उपाधिमेदेन घटाकाशो व्यक्तिरूपो नष्ट इति आबालगोपाल(ल)प्रतीते । सत्त्वादनित्यत्वं परमाणोदृष्टान्तत्वेन व्यक्तिकृतत्वात् , यथा परमाणो द्वचणुक-त्र्यणुक-चतुरणुकतयोत्पद्यमाने परमाणुव्यतिर्नष्टा, न तु परमाणुर्नष्ट इति । अतो जात्या(त्य)पेक्षया सर्व नित्यं व्य. क्त्यपेक्षया त्वनित्यमिति तदेवाक्षरान्तरैराख्यातम् । द्रव्यार्थिक पर्यायाथिक नयद्वयं जैनमतसंमतमेवागतम् । भावार्थस्त्वयं कुत्रचिन्मुख्यवृत्त्या गौणतया वा नित्यानित्यभेदादिक व्यवस्थित यथा सामान्यं तद् द्विवित्रम्-जातिरूपम् उपाधिरूपं च । जानि. सामान्यं सार्वदेकं वस्तु स्वाभाविकम् । उपाधिरूपं पाचकत्वम् । इदं त्वनुवृत्तिप्रत्ययहेतुत्वेन सवाधकत्वाच्चोपाधिरूपं मुख्यार्थिवाधे उपाघिरिति । तद्वत् सर्व योज्यमिति ।
Page Navigation
1 ... 188 189 190 191 192 193