Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१६२
अज्ञातकर्तृका तथा च केन हेतुना भेदः केन हेतुनाऽभेद इति संशयः ।
तथा भेदरूपमभेदरूपं वा दृष्टं वस्तु नाभ्युपगम्यते, अप्यदृष्टं वा भेदाभेदात्मकं परिकल्प्यत इति दृष्टहानिरदृष्टकल्पना च स्यात् ।
तथा चानेकधर्माश्रितवस्तुधर्मापेक्षया सर्वमनेकान्तात्मकं वस्तु, उत तन्निरपेक्षतया प्रत्येकं सर्वं वस्तु अनेकान्तात्मकमिति ! प्रथमपक्षे तु सिद्धसाध्यतादोषः । द्वितीयपक्षे तु विरोधादिदोषोद्भावनम् ॥
तथा च क्रमेण सर्व वस्तु अनेकान्तात्मकमभ्युपगम्यते योगपयेन वा ? प्रथमपक्षे तु सिद्धसाध्यतादोष । द्वितीयपक्षे तु विरुद्धादिदोषसम्भवः इति ।
तथा चानेकधर्मान् वस्तु किमेकेन स्वमावेन नानास्वभावै [र्वा] व्याप्नुयादिति ? यदि वस्तु एकेन स्वभावेन व्याप्नोति तदानेकधर्मणामैक्यं स्यात् । अथ नानास्वभावैयाप्नोति [इति चेत् तदा वस्तुनोऽपि नानात्वं स्यात् , तदाश्रितानां धर्माणां भिन्नस्व भावानां तदाश्रयत्वेन भेदहेतुत्वाद्, 'अयमेव भेदो भेदहेतुर्वा यदुत भिन्नस्वभावधर्माध्यास. भेदकारणम्' इति वचनात् ॥
किञ्च, सर्ववस्तुनि अनेकान्तात्मकेऽभ्युपगम्यमाने जलादेरपि अनलादिप्रसक्तिः स्यादनलादेर्वा जलादिप्रसक्तिर्भवेत् । किञ्च, जलाद्यर्थिनो नरस्य जलादौ प्रवृत्तिर्न सम्भवेदनलाद्यर्थिनश्चानलादौ प्रवृत्तिर्न संबोभूयात्, किन्तु अनलाद्यर्थिनो जलादौ प्रवृत्तिर्घटामटाट्येत जलाद्यर्थिनोऽनलादौ प्रवृत्तिः समजाघट्यत इत्यन्योऽन्यविरुद्धधर्मस्य सद्भावसमानत्वात् । जलादेरनेकान्तात्मकं वस्त्विति तद्विरुद्धानलादीनामपि सुतरामाशङ्कनीयानामभ्युपगमाच्च । तथा च जलाद्यर्थिनोऽप्यनेकान्तात्मकं वस्त्विति मन्यमान सशयाज्जलेऽनले वा प्रवृत्तस्य विवक्षितार्थक्रियाकारित्वाभावान्मूलत प्रवृत्तिरेव न सम्भवीति, 'संशयात्मा क्षयं व्रजेत्' इति सन्मतिवचनात् । को हि नाम विवक्षितार्थक्रियाकारि रूपमनुपलभमानो विवक्षितार्थक्रियार्थी तत्र प्रवर्तेत । किन्तु विवक्षितार्थे विवक्षितार्थक्रियाकारिण्येव विवक्षितार्थक्रियार्थिनः प्रवृत्तिर्दरीदृश्यत इति ॥
तथा च प्रमाणमप्यप्रमाण भवेत् । अप्रमाणं वा प्रमाणमपि भवेत् । तदा च सर्वजनप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोप स्यात् ॥
तथा च भवन्मते सर्वज्ञोऽप्यसर्वज्ञः कथ न सम्भवेदनेकान्तात्मकवस्त्वभ्युपगमात् ॥
१ नुलना-'अयं हि मेदो भेदहेतुर्वा विरुद्धधर्माव्यासः कारणमेदश्च ।' हेतुविन्दुटीका
Page Navigation
1 ... 186 187 188 189 190 191 192 193