Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१५६
श्रीपद्मसुन्दरविरचितः धर्मविधिप्रतिषेधाभ्यामेव दोषानुपपत्तेः। जीवाजीवादिभावानुविद्धानेकधर्मविधिप्रतिपेधबलावलम्बेन सहस्रभड्न्यादेरपि सम्भवात् तत एवकारोऽन्ययोगव्यवच्छेदार्थमखिलमनेकात्मैव, नान्यथेत्येवमन्यविकल्पेष्वपि । तदत्राप्येवकारप्रयोगो निर्दोप एव । तदप्यनेकात्मत्वं भावस्य स्यात् कथञ्चिद्वर्मरूपेणैव, न धर्मिरूपेण, तस्यैकस्यैव शब्दादिरूपस्य प्रतीते; एकात्मत्वमपि धर्मिरूपेण, न धर्मरूपेण, शब्दादेरग्यनित्यत्वकृतकत्वप्रयत्नानन्तरीयकत्वाधनेकरूपधर्मस्यैकस्यैव प्रतिपत्ते. । इत्थमुभयात्मकत्वमपि स्वगताभ्यामेव धर्मधर्मिभ्यां क्रमबुभुत्साविषयाभ्यां न भावान्तरगताभ्याम् , अवक्तव्यमपि नाम्या युगपत् वुभुत्साविपयाभ्यां न क्रमेण नापि पदान्तरेण शतृशानयोरिव युगपढनेकपदे वक्तव्यत्वासम्भवादवक्तव्यमिति लक्षणोद्देशोऽन्यत्राऽप्यूह्यः । स्यान्निपातोऽतिप्रसङ्गनिवृत्त्यर्थः । ततः प्रश्नवगादेकवस्तुन्यविरोधेन विधिप्रतिपेधकल्पना सप्तभङ्गी प्रमाण मेति । न च कल्पनेयं कल्पनामात्रैव साक्षाद्वस्तुविवेचनक्षमा बुद्धिरेवान्तर्वहि स्वरूपापेक्षयाऽनभिलाप्याऽभिलाप्यस्वभावकल्पना तस्याः स्याद्वादविद्वेषे सत्येवानुपपत्तेरिति उक्ता प्रमाण सप्तमगी। अथ विकल्पज्ञानस्य तु नयाधीनत्वान्नयवाद् विकलादेश इति प्रज्ञ ते नयनयाभासस्वरूप निरूपयत्नाह-अनिराकृतप्रतिपक्षो वस्तुमात्रांशग्राही प्रतिपत्तुरभिप्रायो नयः, निराकृतप्रतिपक्षस्तु नयामास इति द्वयो सामान्यलक्षणम् । स द्विभेदो द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र द्रव्यमेव पर्याय एव वार्थो विषयो यस्येति व्युत्पत्तेनयविशेषलक्षणम् । तत्राद्यो नैगमसंग्रव्यवहार विकल्पात् त्रिधा, द्वितीयस्तु ऋजुसुत्रशब्दसमभिरूढैवंभूतविकल्पाच्चतुर्विध.' । तत्रानिष्पन्नार्थसकल्पमात्रग्राह्यविशुद्धविशुद्धतरभावेन प्रधानोपसर्जनतया नैगमो नैकगमो वा । निगमो हि सकल्पस्तत्प्रयोजन इति व्युत्पत्ते. प्रस्थानाधुदाहरणेन विवृणोति । तद्यथा-कश्चित् पुरुषो गृहोतपरशुर्वनं गच्छन् केनचिदनुयुक्तः 'किमर्थं भवान् गच्छति ?' इत्यविशुद्धनैगमवाद्याह-'प्रस्थानमानेतुम्' इति तावदुपक्रमादाप्रस्थनिष्पत्तेर्विशुद्धतरनैगमस्य 'प्रस्थ एव' इति तद्वदेधोदकाद्याहरणे व्याप्रियमाणोऽनुयुक्तः किं करोति भवान्' स चाह-'ओदन पचामि' इति, न १. अर्थसकर पमात्रस्य ग्राहको नैगामो नय । प्रस्यौदनादिकस्तस्य विषय परिकीर्तित. ॥१॥ मेदानकयमुपानीय स्वजातेरविरोधक । समस्तग्रहण य स्यात् स नय सग्रहो मत ॥२॥ सग्रहेण गृहीतानामर्थाना विधिपूर्वकम् । व्यवहारो भवेद्यस्माद् व्यवहारनयः स च ॥३॥ ऋजुसूत्रः स विज्ञेयो येन पर्यायमात्रक । वर्तमानकसमयो विषय. परिगृह्यते ॥४॥ लिमसाधनसख्याना कालोपप्रयोस्तथा । व्यभिचारनिवृत्ति स्याद्यत शन्दनयो यसौ ॥५॥ नयः समभिस्टोऽसौ शब्दो य विषयो स हि (१) । कोऽस्मिन् समभिरूढोऽर्थो नानार्थान् समतीत्य य (2) २. निगम्यते विविक्तं परिच्छिद्यन्ते इति निगमा घटादय , तेषु भवो नैगम अयवा सामान्यविपात्म कस्य वस्तुनो न एकेन प्रकारेण गम. परिच्छेदो नैकगम ।
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193