Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 183
________________ १५७ प्रमाणसुन्दरः । चासौ प्रस्थस्यौदनस्य वा पर्यायो निष्पन्नस्तन्निष्पत्तये सकल्पमात्रेऽपि प्रस्थादिव्यवहारात् । नैकगमं तु व्युत्पादयन्नाह-धर्मयोधर्मिणोधर्मधर्मिणोः प्रधानोपसर्जनतया विषयीकरणाद्वा नैकगमः । 'तत्थ--णेगेहिं माणेहिं मिणइ त्ती णेगमस्स निरुत्ती' इत्यागमोक्तेः, [अनुयोगद्वार ६०६] यथा 'पुद्गलद्रव्यपर्यायः शब्दादिः' अत्रोपसर्जनत्वं पुद्गलस्य गौणत्वात् सामान्याऽजहद्वृत्तिविशिष्टविशेषणत्वाच्च शब्दादेस्तु प्राधान्यं विशेष्यत्वादिति । 'शब्दादिधर्मात्मकं पुद्गलं द्रव्यं च' इत्यत्र पुद्गलद्रव्यस्य मुख्यत्वं शब्दादेौणत्वमिति । तत्रेत्थमस्य प्रमाणात्मकत्वानुषङ्गः, धर्मधर्मिणोः प्रधानतया तत्र ज्ञप्तेरसम्भवात् , तयोरन्यतर एव हि नैकगमप्रधानतयाऽनुभूयते प्राधान्येन, द्रव्यपर्यायद्वयात्मकमर्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नेतरदिति । सर्वथा द्रव्यपर्याययोरन्तरत्वाभिसन्धि गमाभास., यथार्थस्यात्मनः सामान्यविशेषात्मकज्ञानेऽर्थान्तरभूते इति । स्वजात्यविरोधेनैकत्वमुपनीयार्थानाक्रान्त भेदान् समस्तग्रहणात् सग्रहः । स च परापरविकल्पाद् द्विविधः । तत्राद्यः सकलभावानां सदात्मनैकत्वमभिप्रैति 'सर्वमेकं सदविशेषात्' इति, सदिति वागविज्ञानानुवृत्तिलिङ्गानुमितसत्तात्मकत्वमेकत्वमशेषार्थानां सगृह्यते, निराकृता(तवि)शेषस्तु सत्ताद्वैताभिप्रायस्तदाभासो दृष्टेष्टबाधनात् । तथापरः सग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिप्रेति द्रव्यमित्युक्तेर्भूतभवद्भविष्यत्समयवर्त्तिविवक्षितपर्यायद्रवणशीलानां जीवाजीवतद्भदप्रभेदानामेकत्वेन संग्रहः । किञ्च, घट इति सकलघटव्यक्तीनां घटत्वेनैकत्वसङ्ग्रहः । सामान्यविशेषाणां सर्वथाऽर्थान्तरत्वानार्थान्तरत्वाभिप्रायोऽपरसड्ग्रहाभासः प्रत्ययापलापादिति । सड्गृहीतार्थानां विधिपूर्वकमवहरणं भेदेन निरूपणं व्यवहारः । सर्वं सदित्यस्य विभागमभिप्रैति 'यत् सत् तद् द्रव्यं पर्यायो वा' सर्वद्रव्याणि द्रव्यमिति सर्वपर्यायांश्च पर्याय इत्यपरस्ततो व्यवहारो विभजति 'यद् द्रव्यं तज्जीवाजीवादि षड्विधम्', 'यः पर्याय स द्वेधा-संहभावी क्रमभावी च' इति परापरसहव्यवहारप्रपञ्चः । न चास्यैवं नैगमत्वानुषङ्गः सङ्ग्रहविषयप्रविभागपरत्वात् , नैगमस्य तु प्रधानतोपसर्जनतोभयविषयीत्वात् । यस्तु कल्पनारोपितद्रव्यपर्यायप्रविभागमभिप्रैति स व्यवहाराभासस्तथा सति स्वार्थक्रियाहेतुत्वाभावप्रसङ्गाद् गगनाम्भोजवद् व्यवहारासत्यत्वे तदानुकूल्येन प्रमाणानां न प्रमाणता स्याद् यदुक्तम् व्यवहारानुकूल्येन प्रमाणाना प्रमाणता । नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसङ्गतः ॥ इत्थमेन्यथा स्वप्नादिविभ्रमानुकूल्येनापि ज्ञानानां तत्प्रसङ्गादिति । तथा ऋजु प्राञ्जलं वर्तमानक्षणमात्रं सूत्रयतीति ऋजुसूत्रमिति व्युत्पत्ते: ‘पच्चुप्पन्नग्गाहो उज्जुसुओ

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193