Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 180
________________ १५४ श्रीपासुन्दरविरचितः इति तत्र परिणामोऽप्यनैकात्मैव योजयितव्यः यतो व्यस्य लक्षणं गुणपर्ययवत्त्वम्, क्रमाऽक्रमभाविविचित्रपरिणामाभावे द्रव्यस्य लक्षितुमशक्तेः, द्रव्यापाये गुणपर्यायत्वस्यानुपपत्ते. । कार्यद्रव्ये घटादिविशिष्टे गुणत्वस्य भावान्नवपुराणादिपर्याययोगित्वस्य च भावान्नाव्याप्तिले सणस्य, नाप्यतिव्यप्तिः स्पर्शादिसामान्येषु सहभाविगुणेषु स्पशीदिविशेषेषु च क्रमभाविपर्यायेण्वभावात् । तथा पर्यायस्य तद्भावो लक्षणम् । 'तद्भावः परिणाम [तत्त्वार्थसूत्र ५.४१] इत्युक्तः । तेन तेन प्रतिविशिष्टरूपेण भवनं परिणामः ॥ तथा च द्रव्यमेकम्, अनेके पर्याया इत्यत्र सम्यगेकान्तस्यानेकान्तेन विरोधाभावान्नयापणादेकान्तस्य प्रमाणार्पणादनेकान्तस्योपदेशादेकमप्यनेकमनेकमप्येकमिति न विरुद्धम् । उक्तं च द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ 'संज्ञासंख्याविशेषाच स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥ [आप्तमीमांसा ७१-७२] तदित्थं वस्तुपर्यायावेकं वस्तु प्रतिभासभेदेऽप्यव्यतिरिक्तत्वाद् वेद्यवेदकज्ञानवत् । तथाहि-न केवलं द्रव्यमर्थक्रियानिमित्त क्रमयोगपद्यविरोधात् केवलपर्यायवत् । पर्यायो वा न केवलोऽर्थक्रियाहेतुः, तत एव केवलद्रव्यवत् । क्रमयोगपविरोधोऽसिद्धो न मन्तव्यः, अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् अन्यतिरिक्तत्वमैक्यमेव, कथञ्चिदप्यशक्यविवेचनत्वात् । भेदोऽपि परस्परसंज्ञासंख्यादिभिन्नलक्षणात् । तथा द्रव्यस्यानाद्यनन्तैकवैस्रसिककालत्रयवर्तिपरिणामित्वात्, पर्यायस्य च साद्यन्ताऽनेकस्वभावतत्कालगोचरपरिणामत्वात् । द्रव्यस्य चैकत्वान्वयत्वं पर्यायस्यानेकत्वव्यावृत्तिप्रत्ययवत्त्वादन्योन्यविविक्तस्वभावत्वं स्वयमसाधारण लक्षणं तद्विशेषो वा लक्ष्याऽविनाभावित्वमिति नानात्मकमेकं वस्तु सिद्धम् सर्वथा भिन्नयोव्यपर्यायत्वासम्भवात् सह्यविन्ध्यवत् तयोरविरोधस्तु मेचकादिज्ञानवदिति । उक्तं च त्यक्तात्यक्तात्मरूपं यत् पूर्वापूर्वेण वर्त्तते । कालत्रयेऽपि यद् द्रव्यमुपादानमिति स्मृतम् ॥ १ एगत्त च पुहत्तं च संखा सठाणमेव य । सजोगा य विजोगा य पजवाण तु लक्षण ॥ [उत्त० २८ १३] एकवं भिन्नेष्वपि परमाण्वादिषु यदेकोऽय घटादिरिति प्रतीतिहेतुः, पृथक्त्वं चायमस्मात् पृथगिति प्रत्ययनिवन्धनम्, सख्या यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संस्थानमेतत् परिमण्डलोऽयमित्यादिनिबन्धन मेवेति, पूरणे च सर्वत्र, समुच्चये सयोगोऽयमनयो. सयोग इत्यादिव्य पदेशहेतुर्वा, विभागश्चायमितो विभक्त इति बुद्धिहेतव. । उभयत्र व्यक्त्यपेक्ष बहुवचनमुपलक्षणत्वात् नवपुराणादीनि पर्यायाणाम् । तु पूरणे, लक्षणमभिधानम् ।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193