Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 178
________________ १५२ श्री पद्मसुन्दरविरचितः नमसः प्रदेश एवामूर्त्तिमदिन्द्रियमित्यपि न हृदयङ्गम्, तस्य तु वास्तवत्वे कार्यत्वे च नभसः कलशादिवदनित्यत्वप्रसङ्गात्, काल्पनिकस्य तु व्योमकुसुमादिवदिन्द्रियत्वानुपपत्तेः । ततोsस्तु क्षयोपशम स्वभावशक्तिविशेपाध्यासित जीवप्रदेशाधिष्ठितस्य शरीरावयवस्यैव श्रोत्रत्वम्, तत्संस्पर्शनेनैव शब्दस्य श्रवणमिति । न तस्येन्द्रियान्तरात् कश्चन विशेषः । न चाप्राप्यकारित्वं श्रोत्रस्य । तथाहि प्राप्यकारि श्रोत्रम्, प्रत्यासन्नग्राहित्वात्, यन्नैवं न तदेवम्, यथा नयनम् तथा श्रोत्रमिति प्राप्यकारित्वस्य व्यवस्थापनात् । प्रत्यासन्नग्राहित्वं तत एवं । तद्विवरवर्तिनः कीटकादिव्वानस्याप्रत्तिपत्तेः साधनव्यावृत्तिश्च नयनात् ततोऽञ्जनादेस्तद्गतस्याप्रतिवेदनादप्राप्यकारित्वेन प्रवचने निरूपितत्वात्। एकश्रीत्राविष्टस्येव वर्णस्यान्यैरपि श्रवणं पौद्गलिकत्वेन नाशङ्कनीयम्, वर्णस्य तु नानादिगभिमुखप्रवृत्तिकसाधारणानेकस्वरूपतयैव स्वहेतुबलतो गन्धवदेव प्रादुर्भावात् । ततस्ताल्वादिव्यापारजन्मनो ध्वनिविशेषस्य घटस्य चक्रादिव्यापारजनुप इवानित्यस्याप्येवमेव समयविषयतया वर्णाभिव्यवतावुपयोगात् । नैवं प्रवचनस्या पौद्गलिकत्व परिकल्पनमुपपन्नम् । तथा श्रीमदाप्तप्रणीतागमः सैंधयार - उज्जोओ पभा छायातवेइ य । वण्णरसगंधफासा पुग्गलाणं तु लक्खणं ॥ [ उत्त० २८.१२] इति प्रवचनप्रतिपन्नत्वाच्चतुरस्रं सिद्ध पोद्गलिकत्वमिति । ततः स्थितं भूतभवद्भाविभावाधिष्टानयोः अनयोरनैकान्तपरिणामयो मार्गतद्विषययोश्च प्रतिपादकं प्रवचनमविसंवादभावात्, तद्भावस्य च निरूपितत्वात् प्रमाणमिति । प्रमाणतदाभासलक्षणमुद्दिश्य विनेयानामविकलव्युत्पत्तये सप्तभङ्गीं निदर्शयामो यतः प्रमाणमप्यनेकान्तादौ तत्प्रत्यनीकधर्मसप्रतिपक्षे विद्यमाने सप्तभङ्गीमनुवर्तते । तद्यथा - स्यादनेकात्मैव भावः, स्यादेकात्मैव, स्यादुभयात्मैव, स्यादवक्तव्य एव स्यादनेकात्म (माड ) वक्तव्य एव, स्यादेकात्माऽवक्तव्य एव स्यादुभयात्माऽवक्तव्य एव । तद्विषयवस्तुधर्मस्य सप्तविधत्वेनैव सप्तभङ्गोपपत्तेः प्रतिपाद्यप्रश्नानां तावतामेव सम्भवनियमात् । तथाहि - एकात्मनस्तत्प्रतिपक्षस्यापि प्रत्येकमुभयो' क्रमेण युगपच्च प्रतिपित्सायामाद्या विकल्पचतुष्टयी। आद्यविकल्पत्रयस्य क्रमेणावक्तव्येन सह वुभुत्सायामितरविकल्पत्रयीति । अनेकान्तस्येत्थं युक्तिरविरुद्धा तथायुक्तिसङ्गात् यथा 'चलाचलात्मकं वस्तु, कृतकाकृतकात्मक १. प्राप्यकारित्वादेव । २. ‘वर्णस्यैकस्मिन् श्रोत्रे आविष्टत्वे सत्यपि पुनर्यत्र वर्ण तदपौद्गलिकत्वादेव युक्तम् पौगलिकत्वे तु एकस्मिन्नेव श्रोत्रे समाप्तत्वात् कथमन्येषा श्रवणीयम्' इति नाशङ्कनीयम् । तत्राह वर्णस्येति । ३ शब्दोऽन्धकारं उभयत्र सुपो लुक् । उद्योतो रत्नादिप्रकाश । प्रभा चन्द्रादिरुचि । छाया शैत्यगुण । आतपो रविविम्बजनित उष्णप्रकाश !

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193