Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 176
________________ १५० श्रीपद्मसुन्दरविरचितः रूपमेव प्रवचनं वर्णक्रमस्यैव पदादित्वात् तदन्यस्य स्फोटात्मनोऽप्रतिपत्तेः । इतरेतरदेशपरिहारावस्थायिनां कारकाणामप्येकत्र कार्ये यथास्वदेशं भावादिव वर्णानामपि यथास्वकालं विद्यमानत्वस्याविशेपादवश्यमेवमभ्युपगन्तव्यम्, इतरथा ताल्वादिपरिस्पन्दस्यापरापरसमयभाविनो ह्येकत्र पदादिस्फोटाभिव्यक्तावप्यनुपयोगित्वेनानर्थकत्वप्रसक्तः । तथाहि न स्फोटात् स्वाधीनाभिव्यक्तिकादनभिव्यक्ता(व्यक्तिका)द्वाऽर्थप्रतिपत्तिस्ततो ह्यर्थप्रतिपत्तौ सर्वदा सर्वस्यापि ततेस्तदापत्तेः। ततो वर्णक्रमविनिवेशरूपमेव पदादिकम् । तस्य तु पोरुपेयत्वादुपपन्नं पुरुषगुणायत्तं तत्र प्रामाण्यम् । ततः शब्दस्यानित्यत्वेऽपि व्यवहारकालं यावदव्यवस्थितेरयमस्यार्थस्य वाचकः कामति नाशकनीयम् तात्कालिकस्यैवास्य कालान्तरभाविनोऽपि तादृशतया समयविषयत्वादुपपद्यत एव तस्य व्यवहारोपयोगित्व यतो 'दैवरक्ताः किंशुकाः केन रज्यन्ते' इतिवत् सहजयोग्यतयैव शब्दार्थयोः प्रतिपाद्यप्रतिपादकशक्तिप्यिज्ञापकशक्तिवदिति । ततो लौकिको वैदिको वा शब्द. सहजयोग्यतासमयवशादेवार्थप्रतिपादकः । कर्तव्यश्चेत्थमभ्युपगमः । किञ्च, वर्णानां परस्परापेक्षाणां निरपेक्षसमुदायः पदम्, पदना तु तदपेक्षाणां निरपेक्षः समुदायो वाक्यम् । अत्र तु निराकाहत्व हि प्रतिपत्तधर्मो वाक्येष्वध्यारोप्यते न पुनः शब्दधर्मस्तस्याचेतनत्वात् । स चेत् प्रतिपत्ता तावतैवार्थ प्रत्येति किमित्यपरमाकाङ्केत् । किञ्च, प्रतिपत्तुर्यावत्सु परापेक्षेपु पदेषु समुदितेपु निराकाइत्वं तस्य तावत्सु वाक्यत्वसिद्धिरिति गम्यम् । तदित्थं कृतसमया वनयोऽर्थाभिधायकाः । समयस्य तु सामन्यविशेषात्मकेsर्थेऽभिहितत्वान्न जात्यादिमात्रे, तथाभूतस्यार्थस्य वास्तवत्वात् । न चेहाप्यानन्त्याद् व्यक्तीनामन्योन्याननुगमाच्च सङ्केताऽसम्भवः, समानधर्मसाकाइत्वेन क्षयोपशमविशेषाविर्भूतोहाख्यप्रमाणेन तासां प्रतिभासमानतया सङ्केतविषयतोपपत्तेः, अन्यथा कथमनुमानप्रवृत्तिरिति । यच्च परैरभ्यधायि शब्दस्यामूर्तस्यैव वीचितरङ्गन्यायेन श्रोत्रप्रदेशेऽभ्युपसर्पणम् इदमप्यर्द्धजरतीन्यायवाक्यं यदुक्तम् शब्दस्यागमनं तावददृष्टं परिकल्पितम् । मूर्तिस्पर्शादिमत्त्वं च तेषामभिभवः सताम् ।। त्वगग्राह्यत्वमन्ये च भागाः सूक्ष्माः प्रकल्पिताः । तेषामदृश्यमानानां कथ हि रचनाक्रमः ? ।। [श्लोक०शब्दनि०१०७-१०९] इत्यादि तद्वयकवाय्वागमनेऽपि समानम्, 'शब्द'स्थाने वायुं पठित्वा तदागमनमपि तावददृष्टम् । इत्थमदृष्टकल्पनागौरवदोषानुषङ्गस्तत्पक्ष एव न चास्मत्पक्षे तत्रार्थे १ स्फोटात् अर्थप्रतिपत्त्यापत्ते । २. अचेतनत्वेनाकाक्षाविकलत्वात् । ३. सामान्यविशेषात्मकस्य । ४. 'शब्दस्यागमनं तावद्' इत्यत्र 'वायोरागमनं तावद्' इति ।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193