Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 175
________________ । प्रमाणसुन्दरः। १४९ स्तु -मातुलिङ्गद्रव्ये रूपरसादिवत्, न च धर्मधर्मिणोविरोधः । तथाविरोधे सति धर्मिणि धर्माणां प्रतीत्यपलापः स्यान्न चैवमस्तीति । अथ कथञ्चिद् विरोधस्तु सर्वत्र समान एव स्वस्य भावः स्वत्वमित्यादिवदिति । नापि वैयधिकरण्यम्, निर्बाधमेदाभेदयोः सत्त्वासत्त्वयोर्वा एकाधारतया प्रतीयमानत्वात् । नाप्युभयदोपश्चौरपारदारिकाभ्याम् चौरपारदारिकवज्जैनाभ्युपगतवस्तुनो जात्यन्तरत्वान्न तयोरन्योन्यनिरपेक्षयोर्यस्मादयं दोषः, तत्सापेक्षयोरेव । तदभ्युपगमात्, तथा प्रतीते चेति । नापि सङ्कव्यतिकरौ स्वरूपेणैवार्थे तयोः प्रतीतेः । नाप्यनवस्था, धर्मिणो ह्यनेकरूपत्वं न धर्माणा कथञ्चनेति वस्तुनो ह्यभेदो धर्येव, भेदस्तु धर्मा एव, तत्कथमनवस्थादौस्थ्यम्, अनादित्वात् प्रबन्धस्येति । अभावस्य तु प्रागेवापसारितत्वादर्थस्य स्वदेशादिपु सत्त्वं परदेशादिष्वसत्त्वम् । अत्रेतरेतराभाव इत्युन्मत्तप्रलपितम् । तथेतरेतराभावस्य घटाभेदे तद्विनाशे पटोत्पत्तिप्रसङ्गात् पटाभावस्य विनष्टत्वात् । अथ घटादभिन्नोऽसौ तर्हि घटादीनामन्योन्यं भेदो न स्यात् । यथैव हि घटस्य घटाभावाद्भिन्नत्वात् घटरूपता तथा पटादेरपि स्यात् । नाप्येषां परस्पराभिन्नानामभावेन भेदः कर्तुं शक्यो भिन्नाभिन्नभेदकरणे तस्याकिञ्चित्करत्वप्रसङ्गात् । नापि भेदव्यवहारः कर्तुं शक्यः स्वहेतुभ्योऽसाधारणतयोत्पन्नाना सकलभावानां प्रत्यक्षेण प्रतिभासमानत्वादेव भेदव्यवहारस्यापि प्रसिद्धेरलमनर्थकप्रयासेनेति । प्रतिक्षिप्तश्चेतरेतराभाव इति सिद्धं भेदाभेदात्मकं , सामान्यविशेषविषयात्मकमर्थज्ञानं प्रमाणमिति । प्रमेयार्थभेदः पर्याप्तः । आस्तां तावन्निश्चितलक्षणेन प्रत्यक्षादिना सवादात् तद्विषये प्रामाण्यमागमस्य । ततोऽत्यन्तपरोक्षे तु जगत्सन्निवेशविशेषादौ कथं निर्णतव्यम् ? अतनिर्णये तत्त्वज्ञानस्यापरिपूर्णतया निःश्रेयसनिबन्धनत्वाभावप्रसङ्गादिति नाशङ्कनीयम् । तद्विषयस्यापि प्रवचनस्य प्रत्यक्षादिना सवादबलादवधारितप्रामाण्यप्रवचनसमानकर्तकतया निर्णयात् । न च निरवशेषनिधूतरागादिमलकलङ्कस्य सर्ववेदिनो भगवतः क्वचित तथ्यामिथ्यावाक्व(ग्व)चनप्रवृत्तिः प्रतिपनीपद्यत । रागादिमत्त्वे च तदतज्झत्वमिथ्यादेरुपलम्भात् तत्र समानकर्तृकत्वमपि यतोऽत्यन्तपरोक्षार्थोद्योतिनः श्रुतभागस्य प्रत्यक्षाप्रसिद्धार्थोद्योतिश्रुतभागान्तरेण श्रुतान्तरवदवच्छिन्नाद् उपदेशपारम्पर्यादवगतेः । पदादि १. एकान्तेनैकात्मकत्वे योऽनेकस्वभावत्वाद् भावलक्षणो दोषः, अनेकात्मकत्वे चैकस्वभायत्वादभावलक्षण इत्युभयदोष । २ सर्वेषा युगपत् प्राप्ति. सकर., एकत्वानेकत्वयो परस्परविषयग'मन व्यतिकर.। येन(येनैक)स्वभावता तेनाऽनेकस्वभावत्वस्यापि प्रसनो येन चानेकत्वं तेनैकत्य'स्यापि इति सकरप्रसङ्ग । ३ ततश्चाप्रतिपत्तितोऽभाव । ४ घट. पटो न भवति पटः घटो न भवति इति इतरेतराभावः इति ।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193