Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 174
________________ -१४८ श्रीपद्मसुन्दरविरचितः यस्य वस्तुत्वात् । द्रव्यपर्याययोरतु न वस्तुत्व नाप्यवस्तुता किन्तु चस्त्वेकदेशत्वं यथा समुद्राशो न समुद्रो नाप्यसमुद्रः किन्तु समुद्रैकदेश एव । न चात्र संशयादिदोषोपनिपातानुषझावकाशः स्याद्वादप्रक्रियाप्रतीतेरभ्युपगमात् । इह किल भेदामेदयोरप्रतीतौ चलितप्रतीतिः संशयः, साक्षात् प्रतीतौ तु स्थाणुत्वपुरुषत्वयोरचलितप्रतीतिरसशय एवं । तथा कथञ्चिदुक्तयोः सत्त्वासत्त्वयोरिव भेदा मेदयोविरोधासिद्धेः । स्वद्रव्यादिकं निमित्तमपेक्ष्य भावप्रत्ययं जनयेदर्थः परद्रव्यादिकमपेक्ष्याभावमित्यन्योन्याव्यवच्छेदेनैकस्मिन्नाधारे भेदाभेदयोधर्मयोः सत्त्वासत्त्वयोर्वा प्रतिभासमानत्वात् । न सहानवस्था न]लक्षणो विरोधः अन्धकारप्रकाशयोरिव । न चात्र व्य(व)ध्यधातकलक्षणो विरोधः फणिनकुलयोबलवदवलवतोरिव प्रतीतः सत्त्वासत्त्वयोर्भेदाभेदयोः समानवलत्वात् । अस्तु वा कथञ्चिद् विरोधः परस्परपरिहारस्थितिलक्षणः कश्चित् सहैकत्राम्रफलादौ रूपरसयोरिवानयोः सम्भवतोरेव स्यान्न त्वसम्भवतोः सम्भवदसम्भवतोर्वा । किञ्चायं विरोधो धर्मयोर १. भेदाभेदात्मके वस्तुनि । २ मेदामेदात्मके च वस्तुनोऽसाधारणकारणेन निश्चेतुमशक्तेरिति सशयः । ३. नाऽभेदो भेदरहितो मेदो वाऽमेदवर्जितः । केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् ।। येनाकारेण भेद. किं तेनासावेव वा द्वयम् । असत्त्वात् केवलस्येह सतश्च कथितत्वत ॥ यतश्च तत् प्रमाणेन गम्यते युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिदूषणम् ।। एव भयदोषादिदोषा अपि न दूषणम् । समयक् जात्यन्तरत्वेन मेदामेदप्रसिद्धितः॥ तेनानेकान्तवादोऽयमझे. समुपकल्पितः । न युज्यते वचो वक्तुमिति न्यायानुसारिणः ।। अन्योन्यव्याप्तिभावेन द्रव्यपर्याययो. कथम् । भेदो(दा)मेदो विरुद्धः स्यात् तद्भावानुपपत्तितः ॥ नान्योन्यव्याप्तिरेकान्तमेदेऽभेदे च युज्यते ।। अतिप्रसशाच्चैक्याच्च शब्दार्थानुपपत्तितः ॥ भन्योन्यमिति यझेद व्याप्ति चाह विपर्ययम् । भेदामेदे द्वयोस्तस्मादन्योन्यव्याप्तिसम्भव ॥ एव शवलरूपेऽस्मिन् व्यावृत्त्यनुगमावपि । स्याद्वादनीतित. सिद्धौ तथानुभवसुस्थितेः ।। इत्यं प्रमाणसिद्धेऽस्मिन् विरोधोद्धावन नृणाम् । व्यसन धीजडत्वं वा प्रकाश[य]ति केवलम् ॥

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193