Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
श्रीपद्मसुन्दरविरचितः दिसहायो ह्यात्मैवोत्पादव्ययध्रौव्यात्मकत्वं भावानां प्रतिपद्येत । यथैव हि घटकपालयोर्विनाशोत्पादौ प्रत्यक्षसहायोऽसौ' प्रतिपद्यते तथैव मृदादिरूपतया स्थितिमपि । न चानन्तरातीतानागतक्षणयोः प्रत्यक्षस्य प्रवृत्तौ स्मरणप्रत्यभिज्ञानानुमानानां वैफल्यम्, तत्र तेषां साफल्यानभ्युपगमात् भतिव्यवहिते तदङ्गीकरणात् । न चाक्षणिकस्यात्मनोऽर्थग्राहकत्वे स्वगतबालवृद्धाद्यवस्थानामतीतानागतजन्मपरम्परायाः सकलभावपर्यायार्णामेकदैवी(वो)पलम्भप्रसङ्गः, ज्ञानसहायस्यैवार्थग्राहकत्वाभ्युपगमात्, तस्य च प्रतिवन्धकक्षयोपशमानतिक्रमेण प्रादुर्भावात् न परिकल्पितदोषानुपङ्गः । ततो यत्रैवास्य ज्ञानपर्यायप्रतिवन्धापायस्तत्रैव ग्राहकत्वनियमो नान्यत्रेत्यनवद्यम् । आत्मा प्रत्यक्षसहायोऽनन्तरातीतानागतपर्याययोरेकत्वं प्रतिपद्यतेति, स्मरणप्रत्यभिज्ञानसहायश्चातिव्यवहितपर्यायेप्वपि इति, चित्रमेचकसंशयज्ञानवद् युगपदेकस्यानेकाकारसम्बन्धित्वक्रमेणापि, तत् तस्याविरूद्धमिति सिद्धं परापरविवर्तव्याप्येकद्रव्यलक्षणमूर्खतासामान्यमिति ।
तथा विशेषोऽपि द्विविधः – पर्यायव्यतिरेकभेदात् । तत्र पर्यायस्वरूपं निरूपयति । एकत्र द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षामर्षादिवत् । स चापेक्षापूर्वकारी । ततश्चित्रसंवेदनवदनेकाकारल्यापित्वेनात्मनः स्वसवेदनप्रत्यक्षसिद्धत्वात् । यद् वस्तु यथा वास्तवस्वभावेन प्रतिभासते तत् तथैव व्यवहर्तव्यम् , यथा वेद्याकारात्मकैकरूपतया प्रतिभासमानं सवेदनं सुखाद्यनेकाकारकात्मतया प्रतिभासमानश्चात्मेत्यनुमानप्रसिद्धत्वात् । तथा च सुखदुःखादिपर्यायाणामन्योन्यमेकान्ततो भेदे च 'प्रागहं सुख्यासं संप्रति दुःखी वर्ते' इत्यनुसंधानप्रत्ययो वासना, सा तु न सुखादिम्यो भिन्ना, तेभ्यस्तस्याः कथञ्चिद्भेदे नाममात्रं भिघेताहमहमिकया स्वसंवेदनप्रत्यक्षप्रसिद्धस्यात्मनः सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वतो वा वासनेति नामान्तरम् । क्रमवृत्तिसुखादीनामेकसन्ततिपतितत्वेनानुसंधानमित्यप्यात्मनः सन्ततिशब्देनाभिधानात् । तेषां कथञ्चिदेकत्वाभावेऽनेकपुरुषसुखादिवदेकसन्ततिपतितत्वस्याप्ययोगात् । भात्मनोऽनभ्युपगमे तु कृतनाशाकृताभ्यागमदोषानुषङ्गः । कर्तुनिरन्वयनाशे हि कृतस्य कर्मणो नाशः, कुर्तुः फलानभिसम्बन्धादकृताभ्यागमश्चाकर्तुरेव फलाभिसम्बन्धात् । ततस्तद्दोषं परिजिहीर्घणाऽऽत्मनोऽनुर्गमोऽभ्युपगन्तव्यः । न चाप्रमाणकोऽयं तत्स्वभावावेदकयोः स्वसवेदनानुमानयोः प्रतिपादनात् । उदहमेव ज्ञातवानहमेव वेयीत्यादेरेकप्रमातृविषयप्रत्यभिज्ञानस्यापि सद्भावात् । तथा च भट्टपादाः
१. मात्मा । २ ज्ञानम् । ३. मात्मनः । ४. सुखादिभ्य । ५ वासनायाः । ६. अन्षयः।
Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193