Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 170
________________ પ્રુષ્ટ श्रीपद्मसुन्दर विरचितः कुरुते' [गीता ४. ३७ ] इत्यनेनैव तत्त्वज्ञानिनां कर्मसक्षयो नारब्धजन्मान्तरशरीरश्चे(स्ये)त्यसुन्दरम् । तथा सत्यपि निषिद्धाचरणस्य प्रवृत्तेरसाधीयस्त्वाद् मोक्षापला - पस्तदागमविरोधश्च ‘अकुर्वन् विहितं कर्म प्रत्यवायेन लिप्यते' [ ] इति । नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ||ति || [ ] ततस्तदनुष्ठानं तत्परिजिहीर्षायामनवद्यमेव । नापि प्रारब्धकर्मणस्तद्विपाकवेदनत्र्यतिरेकेण मोक्षोपलम्भ' स्यात् । "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” । [ ] तदनुमानं च-कर्माण्युपभोगादेव क्षीयन्ते, कर्मत्वात्, प्रारब्धगरीरकर्मवदिति । ततस्तन्नियतिना[शा]य तपोविशेषाचरणं निःश्रेयसकारणमस्तु । तत्रापि ज्ञानाग्ने सानुष्ठानतयैव व्याख्यानात्। ‘यथैधांसि समिद्धोऽग्निर्भस्मसात् करुते क्षणात्' इति तु सकलं संवररूपचारित्रोपबृंहितस्यैव ज्ञानाग्नेरशेषकर्मक्षये सामर्थ्याभ्युपगमात् सिद्धसाधनम् । अन्यथा तदुपभोगेनैव इत्येकान्तोपपत्त्याऽप्यागामिककर्मनिमित्ताभिलाषे संसारानुच्छेदः । ततः सम्यग्ज्ञानस्य तु मिथ्याज्ञानोच्छेदक्रमेण वाह्याभ्यान्तरग्रन्थमोहनिवृत्तिधर्मसंयमोपबृंहितस्यागामिकर्मानुत्पत्तिसामर्थ्यात् संचितकर्मक्षयेऽपि सामर्थ्यं सम्भाव्यत एव यथोष्णस्पर्शस्य भाविशीतस्पर्शानुत्पत्तौ सामर्थ्यवत् प्रवृत्ततत्स्पर्शादिध्वंसेऽपि सामर्थ्यस्य संभावनात् । किञ्च, वैद्योपदेगा दातुरोऽप्यौषधाद्याचरणे नीरुग्भावाभिलाषेणैव प्रवर्तते न पुनर्ज्ञानमात्रात् । तत' पूर्णसम्यग्दर्शनज्ञानचारित्रस्यैवेति 'जीवन्मुक्तेरपि त्रयात्मकादेव हेतोः सिद्धेः । संसारकारणं हि मिध्यादर्शनादित्रयात्मकं न पुनर्मिध्याज्ञानमात्रात्मकमिति । तथा मुक्तावपि अनेकान्तस्य निक्षेपात् । तत्र द्वेधाऽनेकान्तः क्रमानेकान्तोऽक्रमानेकान्तश्च । तत्राद्यो य एव प्रागमुक्तः स एव साम्प्रतं मुक्तः, तत स एवमुक्तः संसारी चेत्यविरोधः । अनेकान्ताभ्युपगमो निर्दोष एवेति । ततोऽनाद्यविद्याविजृम्भिताष्टकर्मसन्ततिप्रवाहविलयादनन्तदर्शनज्ञानसुखवीर्यप्रतिपत्तिस्वरूपे द्रष्टुर्भगवतः परमानन्देऽवस्थानं मोक्ष इति । ततो ह्यागमोक्त पञ्चदशविधसिद्धादन्यतमस्यापि सिद्धत्वम्, अविद्यानिर्मितलिङ्गस्य मोक्षप्रत्यूहे निर्हेतुकत्वात् सिद्धस्यात्मस्वरूपेऽवस्थानादिति । と विषयस्तु मार्गस्य नवधा तत्त्वम् - " जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षास्तत्वम्” इति श्रुतधरवाच । मार्गविषयत्वं तु तस्य निर्णयादेव प्रवृत्ते' नहि जीवस्यानिर्णये १. पाप । २. अवश्यमेव भोक्तव्य कृतं कर्म शुभाशुभमिति अप्रेतन पदद्वयम् । ३. जीवतो मुक्तिर्यस्य तस्य केवलिन इत्यर्थ. । ४. अज्ञानम् ।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193