Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१४२
श्रीपद्मसुन्दरविरचितः कर्ता स्मयते तथावाक्येभ्यः । तथा काण्व-मान्यदिन-तैत्तिरीयादयः शाखाभेदाः कथमस्मर्यमाणकर्तृकाः । ततः स्ववचनविरद्धोऽयं पक्षाभासो, यथा 'माता मे वन्ध्या, पुरुपसयोगेऽपि गर्भाभावात् , प्रसिद्धवन्ध्यावत्' इति । ततः सिद्धमाप्तप्रणीत एवागमः प्रमाणम् , पौरुषेयत्वादिति ।
तत्र सदसदादिभिरभिधेयमर्थमनन्तधर्मात्मकं संवित्ते यथावदभिधत्ते वा स एवाप्त. । स च द्विघा-विकलाविकलज्ञानविकल्पात् । विकलज्ञानस्याप्तत्वं तद्वचनस्याधिकं व्यवहाराविरूढत्वात् । अविकलज्ञानो द्विविध -परोक्षप्रत्यक्षज्ञानभेदात् । तत्र परोक्षज्ञानो गणधरादिः तस्य तु प्रवचनोपनीतविश्वार्थपरार्थविषयाविशदज्ञानतया परोक्षज्ञानत्वात् । प्रत्यक्षज्ञानवांस्तु स्याद्वादवादी तीर्थकरभट्टारकस्तदन्योऽपि केवली तस्य निरवशेषनिधूतकषायदोषमलोपलेपतया परमवैराग्यातिशयविजृम्भितस्य सकलद्रव्यपर्यायात्मकानन्तधर्मात्मकवस्तुतादात्विकैप्रतपनसाक्षात्कारिणः प्रत्यक्षज्ञानस्य भावात् । ततो युक्तं तदुक्तत्वात् प्रवचनस्य गुणवत्त्वमविरुद्धत्वादित्वमन्यथा तद्वचनस्य तथात्वासम्भवात् । वीतरागस्यापि सरागवदीहापूर्वकं वचनमिति न शङ्कनीयम् , तस्य तु प्राग्भवार्जिततीर्थकरगोत्रसुकृतविशेषोपनिपातात् स्वभावादेव भानुभतो नलिनविकाशवदुदन्वदम्भोविवर्धनवच्च तुहिनद्युतेर्विजृम्भते निरीहितो ध्वनिविशेषः । तत्र तु प्रत्यर्थनियतेविषयाभिसन्धेर्नियततायास्तु सम्मवः । प्रश्नविषय एव प्रत्यर्थनियतानेकस्वभावाधिकरणादपि तदर्शनात् तदुपपत्तेः । न च क्षायिकं केवलज्ञानं क्रमेणाशेषार्थग्राहकं यतोऽशेषघातिकर्मपरिक्षये सहस्रोस्रवद(द) युगपदखिलार्थोद्योतकस्वभावत्वात् तस्य करणंक्रमव्यवधानातिवर्तित्वाच्चेति । तत्र प्रथमक्षण एवाशेपार्थोद्योतित्वं द्वितीये त्वज्ञ इति सर्वज्ञापलापवादिभिर्न मन्तव्यम् , ज्ञेयनिष्ठं ज्ञानं वैशद्यमनुभवतीति ज्ञानज्ञेयद्वयस्यानन्तत्वादुक्तदोषानवकाशः । तन्निष्ठत्वे तु तद्वानेवेति न मन्तव्यं तथापरिणामो हि तत्त्वकारणं न सविन्मात्रम् । अन्यथा मद्यादिरित्थंभूतरस इति वाक्याच्छ्रोत्रियस्यापि तद्रसास्वादनदोषप्रसङ्गः । रसनेन्द्रियजत्वात् तस्यादोषोऽन्यत्रापि समानः । तथा कचिद्विषये" तस्योद्भूतस्यात्मभावतथा विनाशासम्भवात् । न हि स्वभावो भावस्य विनश्यति स्फटिकस्य स्वच्छतादिवत् । अन्यथा तस्याप्यभावः स्यादौपाधिकस्येव नियतविनाशादिति । अथानुमानागमज्ञानस्यास्पष्टत्वात् तज्जनितस्याप्यवैशचं ततो न विशदज्ञानवानिति बालविलसितम् । न हि सर्वथा कारणानुरूपमेव कार्य
१ तदानां भव प्रकाश । २ केवलज्ञानमन्तरेण । ३ आगमासम्भवात् । ४. ध्वनिविशेषे ५ निश्चित । ६. अभिप्रायात् । ७. केवलज्ञानस्य । ८. इन्द्रिय । ९ केवलज्ञाने । १०. अप्रसन्न ज्ञेयः । ११. कैवल्यादिविषये । १२. कैवल्यस्य । १३. आत्मरूपतया ।
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193