Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१४३
प्रमाणसुन्दरः। तद्विसदृशस्याप्यड्कुरादेवीजादेरुत्पत्तिदर्शनात् । सर्वत्रापि सामग्रीभेदात् कार्यभेदः । अत्रापि आगमादिज्ञानेनाभ्यासप्रतिवन्धकापायादिसामग्रीसहायेनासादिताशेषविशेषविज्ञानमाविर्भाव्यते' भावनाबलात् । ततो युगपत् परस्परविरुद्धानामन्धतमसोद्योतादीनाम् एकत्र संविदि युगपत् प्रतिभाससंवेदनम् । अन्यथा 'यत् कृतकं तदनित्यम्' इत्यादिव्याप्तिज्ञानाभावानुषगः स्यात् । अलं प्रपञ्चेन ।
ततस्तत्प्रणीतवचनेऽस्ति चायं प्रमाणाविरोधलक्षणाविसंवादः, ततस्तदर्थस्य कस्यचित् प्रत्यक्षेणापरस्यानुमानेनात्यन्तपरोक्षस्य तदैकदेशैरविरुद्धतयैव प्रतिपत्तेः । ___ तत्र प्रतिपत्तव्यार्थानाह-भावेष्वनेकान्तः, परिणामः, मार्गः, तद्विषयश्चेति । तत्रानेकान्तो नाम युगपदनेकरूपत्वं तेषां परिणामश्च क्रमेण । अस्ति हि तयोः 'गुणपर्ययवद् द्रव्यम्' 'उत्पादव्ययध्रौव्यवत् सत्'इति प्रभृतेरागमादिव प्रत्यक्षादेरपि प्रतिपत्तिः, चेतने तु स्वपरविकल्पविभ्रमादिभिः स्वस्वभावैः, अचेतनेऽपि सामान्यविशेषगुणादिभिस्तदेकान्तभेदाभेदयोरप्रतिपत्त्या प्रतिक्षेपेणायुगपदनेकरूपस्याध्यक्षतः , शक्तिभेदैश्च कार्यभेदप्रतिपत्तिकादनुमानतोऽपि निर्णयपथप्रापणात् । एवं परिणामस्य । तस्यापि स्मरणप्रत्यभिज्ञानाद्यनुपातिनश्चित्स्वभावस्याचित्स्वभावस्यापि कुण्डलप्रसारणाधनुषङ्गिभुजगाद्यात्मनः स्वानुभवाद् इन्द्रियादप्यध्यक्षतोऽन्वीक्षणात् । तदित्थमनुमानतोऽपि । तच्चेदं क्रमादप्यनेकान्तात्मा भावो युगपदपि, अन्यथा तदनुपपत्तेः । निरन्वयविनाशे तु तस्य चिद्रूपादेश्चिराक्रान्तवत् कार्यतत्समयमप्राप्तस्यानुपयोगेनावस्तुत्वापत्तेः । सान्वयविनाशे तु स एव परापरसमयेष्वपि । तस्येति तच्छब्देन वस्तुनः परामर्शात् तस्य वस्तुनः । आत्मानौ परस्परापेक्षौ भेदाभेदात्मको गुणपर्यायौ यस्मिन्निति व्युत्पत्त्या तदात्मनः क्रमानेकान्तस्य । ततः साधनम् - अविनाभावस्य तत्रैवाध्यवसायादिति । - तथा निःश्रेयसस्योपेयस्य प्राप्त्युपायलक्षणस्त्रिरूपो मोक्षमार्गः । स च सम्यगदर्शनज्ञानचारित्राणीति मोक्षमार्गः । तदनुमानं च-त्रिरूपोऽपवर्गमार्गोऽपवर्गमार्गत्वाद]न्यथाऽपवर्गमार्गत्वानुपपत्तेः । न चाश्रयासिद्धोऽयं हेतुः, अपवर्गवादिनां सर्वेषामेव तस्य प्रसिद्धत्वात्, न चान्यथोपपत्तिः । ज्ञानादे. पार्थक्येन तन्मार्गत्वाभावात् । पार्थक्ये तु न ज्ञानादेव केवलाद् मुक्तिः समुत्पन्नज्ञानस्याप्यमुक्तस्यावस्थितेः, न तद्वचरिक्ताद दर्शनादेवायमैभिरुचिमात्रात् तद्विषयापरिज्ञाने तस्यैवासम्भवात्, नाप्यनुष्ठानमात्रात् तद्विषयवेदनश्रद्धानयोरभावे तस्यैवाभात् । अथ 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्
१. प्रकटयते । २. अनुभूताद्यविस्मृतिः । ३. ज्ञाने । ४. भागमार्थस्य । ५. भावानाम् । ६. अनेकान्तपरिणामयोः । ५. प्रत्यक्षतः । ८. अनुमानम् । ९, मोक्षः।
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193