Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 179
________________ १५३ प्रमाणसुन्दरः। त्वात्' इति । न चायमसिद्धो हेतु , प्राच्यरूपत्यागाविनाभाविपररूपोत्पादस्यापेक्षितपरव्यापाररूपेण कृतकत्वमिद्धे, सदास्थास्नुस्वरूपस्यानपेक्षितपक्षापरत्वेनाकृतकत्वनिश्चयात् । तदुत्पादव्ययध्रौव्यसमुदितं सदिति । तथा 'गुणपर्यायवत् द्रव्यम्' [तत्त्वार्थसू० ५.३८] इत्यपि । न चात्रोत्पादादोनां कथञ्चिद्भिन्नलक्षगत्वं विरुद्वम्, परस्पराऽनपेक्षत्वे तु वियदम्भोजवत् केवलस्य त्ववस्तुतापत्ते । तथाहि नोत्पादः केवलः स्थितिव्ययहीनत्वाद् वियदम्भोजवत्, न च स्थिनिः केवला व्ययोत्पादहीनत्वात् तद्वत् । व्ययः केवलोऽपि न स्थित्युत्पत्तिहीनत्वात् तद्वदेवेति योजनात् । सामर्थ्यादेव त्रिरूपकलित सदिति मन्यामहे । तदन्यतमापाये सत्त्वरयाप्यनुपपत्तेः । उक्तं च - घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । गोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ [आप्तमीमांसा ५९] यतो घटं भक्त्वा मौलिनिवर्त्तने घटार्थिन. शोकस्य, मौल्यर्थिनः प्रमोदस्य मौल्युत्पादनिमित्तत्वात्, सुवर्णार्थिनो माध्यस्थ्यस्य हेमस्थितिहेतुकत्वात् सहेतुकमिति । ततः सदसतो विधिप्रतिपेधाभ्यामेव भावाभावत्वं कथञ्चिदेव न सर्वथा । उक्तं च द्रव्याद्यन्तरभावेन निपेध' सज्ञिनः सत' । असद्भेदो न चावस्तु स्थानं विधिनिपेधयोः ॥ [आप्तमीमांसा ७४] ततोऽत्राभावस्य भावान्तरस्वभावेनावभासनम्, स्वरूपसिद्धस्य घटस्य घटान्तररूपेणाघटत्ववत्, वस्तुनोऽपि वस्त्वन्तररूपेणैवावस्तुत्वप्रतिपत्तेः, परस्परपरिहारस्थितत्वादेव । भावव्यतिरेकिमिः शब्दैरपि भावाभिधानान्नासमञ्जसस्वरूप तत्वमिति । अन्यथा तु पराभ्युपगतमनभिलाप्यमेव । उक्तं च अवस्न नमिलाप्यं स्यात् सर्वान्तः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ [आप्तमीमांसा ४८] १ सत् द्रव्यलक्षणमिति । यत् सत् तद् द्रष्यमित्यर्थः । यद्येव तदेव तावद् वक्तव्य किं सदिति ? अत आह-उत्पादव्ययधोव्ययुक्त सत् । चेतनस्याचेतनस्य द्रव्यस्य स्वाजातिमहत. उभयनिमित्तवशाद्भावान्तरावाप्तिहन्पादनमुत्लादः मृत्पिण्डत्य घटपर्यायवत्, तथा पूर्वभावविगमन व्यय यथा घटोत्तत्तौ पिण्डाकृते । अनादिपारिणामिकस्वभावेन व्ययोदयाभावात् ध्रुवति स्थिरीभवतीति ध्रुव । ध्रुवस्य भाव कर्म वा ध्रौव्य यथा मृत्पिण्डाद्यवस्थासु मृदाद्यन्वयात् । तैरुत्पादन्ययध्रौव्यैर्युक उत्पादव्ययध्रौध्ययुक्त सदिति । आह मेदे सति युक्तशब्दो दृष्टः यथा दण्डेन युक्तो देवदत्त इति । तथा सति तेषा त्रयाणा तैयुक्तस्य द्रव्यस्य चाभाव प्राप्नोति । नैष दोष , भमेदेऽपि कथञ्चिद्भेदनयापेक्षया युक्नशब्दो दृष्टः यया सारयुक्त. स्तम्भ इति । तथा सति तेषामविनाभावात् सद्वयपदेशो युक्त । समाधिवचनो वा युक्तशब्दः युक्तः सम हित तदात्मक इत्यर्थ । उत्पादव्ययध्रौव्यात्मकमिति यावत् । एतदुक्तं भवति उत्पादादीनि द्रव्यस्य लक्षणानि, द्रव्य लक्ष्यम् । तत् पवादाकिनयापेक्षया परस्परतो द्रव्याच्चान्तरभाव । द्रव्यार्थिकनयापेक्षया व्यतिरेकेणानुपलब्धि अनर्थान्तरभाव इति लश्यलक्षगभावसिद्धिरिति । [सर्वार्थसिद्धि ५३०] २० ।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193