Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
प्रभाणसुन्दर।।। शब्दस्य गुणत्वामूतत्वतिरस्काराय ब्रूमः । न च भित्तिपटाद्यधिकरणव्यतिरेकेण चित्रादिरचनाझमः संजाघटीति वर्णादिसाधर्म्यवैधाद्यनुपपत्तेस्ततस्तमपि प्रमाणयामः। तथाहिपुद्गलद्रव्यं शब्दः, स्पर्शाल्पत्वमहत्त्वपरिमाणसंख्यासंयोगगुणोश्रयत्वात्, यद्यदीदृशै तत् तत् पुद्गलद्रव्यम् यथा बदरामलकांदि, तथा शब्दः, तस्मात् पुद्गलद्रव्यमेव । न चास्य स्पर्शाश्रयत्वमसिद्धम् । तथाहि-स्पर्शवान् शब्दः, स्वसम्बद्धार्थान्तराभिघातहेतुत्वात् मुद्गरोपलादिवत्, सुप्रतीतो हि कंसतालडिण्डिमादिनाऽभिसम्बन्धेन श्रोत्राघभिघातस्तत्कार्यस्य वाधिर्यादेः प्रतीतेः, न चास्यास्पर्शवत्त्वेन स्यात् न वायुना शब्दसहचरितेन तदभिघातः, तस्य तु शब्दाभिसम्वन्धान्वयव्यतिरेकानुविधायित्वात् । न चास्याल्पत्वमहत्त्वपरिमाणाश्रयत्वमसिद्धमल्पमहत्त्वप्रतीतिविषयत्वात् बदरादिवत्, तथा चाल्पः शब्दो मन्दो महान् पटुस्तीत्र इत्यादिप्रत्ययेनाल्पमहत्त्वम् । नापि संख्याश्रयत्वमसिद्धमेको द्वौ बहवः शब्दा इति सख्यावत्त्वप्रतीतेघटादिवत् । नापि संयोगाश्रयत्वमसिद्धं वाय्वादिनाऽभिहन्यमानत्वात् पाश्वादिवत्, सयुक्ता एव पश्विादयो वायुनान्येन चामिहन्यमाना दृष्टाः, तेन तेदभिघातश्च, देवदत्तं प्रत्यागच्छतः शब्दस्य प्रतिवातेन प्रतिनिवर्तनात् पाश्वादिवत् तदप्यन्यदिगवस्थितेनैव श्रवणात् । ततः सिद्धं गुणवत्त्वाद् द्रव्यत्वं शब्दस्य । किञ्च, आकाशगुणत्वे शब्दस्यास्मदादिप्रत्यक्षता न स्यादाकाशस्यात्यन्तपरोक्षत्वात् , तथा पराभ्युपगतशब्द इति । ततः शब्दस्याकाशगुणासिद्धिः । तथा च द्रव्यत्वं शब्दस्य क्रियावत्त्वाद् वाणादिवदिति, न चासिद, निष्क्रियत्वे तु तस्य श्रोत्रेणाग्रहणमनभिसम्बन्धात्, तथापि ग्रहणे श्रोत्रस्याप्राप्यकारित्वं स्यात् । अत आकाशस्य निष्क्रियत्वाद द्वयणुकादिद्रव्यविवर्तनेव क्रियात्वस्य परिकल्पनम् उपपन्नम् । ततो हि पुद्गलविवर्तः शब्दः करणाधीनज्ञानवेद्यत्वाद् घटादिसस्थानवत् । न च तोयादिना तद्वद्यत्वे सत्यपि पुद्गलविवाभावत्वेन व्यभिचारः, तत्राप्यनभिव्यक्तस्य गन्धादेः स्पर्शवत्त्वादेव लिङ्गात् पृथिव्यामिव प्रत्तिपत्तेः, अनुभूतस्वभावत्वाच्च हेम्न्युष्णस्पर्शवदनुपलम्भस्याप्यविरोधात् पृथिव्यादिरूपतया चातुर्विध्यस्यापि धारणद्रवोष्णेरणरूपतया पुद्गलत्वाविशेषेऽप्युपपत्तेः । तन्न परपरिकल्पितोऽयं नियमो घटामटाट्यते यत्-आपो रूपरसस्पर्शवत्य एव, तेजो रूपस्पर्शवदेव, वायुस्तु स्पर्शवानेवेति । नापि सामान्यैः कर्मभिर्व्यभिचारः, सामान्यादीनां तद्वतो भेदेऽपीन्द्रियवेद्यत्वस्याप्रतिवेदनात् , अभेदे तु तद्वतः पुद्गलतया तद्विवर्तनत्वेन तेषु सपक्षस्यैव भावात् । अथ च परिणामिन्येवार्थे यथोक्तम् कर्मोपपद्यते न चेदमप्यनर्थान्तरम् । तथा श्रोत्रशष्कुलीविवरपरिच्छिन्नो
१. वायुना शब्दाभिघातः । २. तथाहि येऽत्यन्तपरोक्षगुणिगुणा न तेऽस्मदादिप्रत्यक्षा यथा परमाणुरूपादयः ।
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193