Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 171
________________ • प्रमाणसुदः । तत्प्रवृत्तिरनिर्णीतस्यापवर्गार्थित्वासम्भवात् । तत्र ज्ञानस्यैव, स्वपरसंवेदनस्वभावस्यान्वयिनो जीवत्वात् । तस्य तु क्रमानेकान्तनिरूपणेन निर्णयात् । नाप्यजीवस्य, तदा तत्सम्बन्धस्य बन्धस्यानक्गमेन तद्वियोगाकाक्षाऽनुत्पत्तेः । नाप्याश्रवस्य, पुण्यपापात्मकस्य तन्निवर्तनद्वारेण शक्यनिवर्तनत्वानवगमेन कस्यचिदपि तन्निवर्तनायोद्यमानुपपत्तेः । नापि समितिगुप्तिपरीषहजयनिर्वेदप्रकर्षभावनात्मकसंवरस्य, सकामाकामनिर्जरामोक्षयोर्वा,तदापि तस्य तन्निदानप्रत्यनीकत्वस्य तयोर्बन्धविश्लेपस्वभावत्वस्य मृदाद्युपलेपविलयोद्भिद्यमाननीरसालाबुवत् पूर्वप्रयोगनिःसङ्गत्ववित्रसोर्ध्वगमनस्वभावस्य भावस्यः चानवगमेन तदनुपपत्तेः । तदेषां निर्णयस्तु सामान्यविशेषविषयात्मकप्रमाणेनानुवृत्तव्यावृत्तप्रत्ययत्वेन स्याद्वादनिर्णिनीपूणाम् अविरोधतया साक्षात् प्रत्ययजनकत्वादेव स्यात् । अन्यथैकान्तप्रक्रियाव्यामुग्धानां प्रतीत्यपलापः प्रादुर्बोभवीति प्रतिक्षणनिरन्वयविनाशाभ्युपगमादिति । तत्र सामान्यं द्विधा-तिर्यगूर्खतासामान्यभेदात् । तत्र सदृशपरिणामस्तिर्यक्सामान्यं खण्डमुण्डादिषु गोत्ववत् । तथोक्तम्. एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी । एकधीहेतुभावेन व्यक्तीनामप्यभेदता ॥ [प्रमाणवा० ३.१०८] तदैनभ्युपगमेनाह. नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ [प्रमाणवा० ३.४३] इत्यादिविरोधानुषङ्गात् । तथा शबलधवलयोर्वर्णभेदोपचारेऽपि तत्रैकत्वोपचारः । तथाह्येकत्वं द्विविधं मुख्यमुपचरितं च । नत्र मुख्यमात्मादिद्रव्ये, सादृश्ये तूपचरितं चेति । तयोरभेदोपचारे सति सामान्यं न तु तेन समानोऽयमतो बाधबोधादि(घि)रूढत्वात् सिद्धं सदृशपरिणामभूतरूप वस्तुस्वरूपं सामान्यमिति । तथाऽपरापरविर्तव्यापिद्रव्यमूर्खतासामान्यं मृदिव स्थासकोशकुसूलादिषु । तत्र पूर्वोत्तरविवर्तव्यतिरेकेणापरस्य तद्व्यापिनो द्रव्यस्यासत्त्वमिति न मन्तव्य यतः प्रत्यक्षत एवार्थानामन्वयिरूपप्रतीतेः प्रतिक्षणविशरारुतया स्वप्नेऽपि तत्र तेषां प्रतीत्यभावात् । किञ्च, यथैव पूर्वोत्तरविवर्तयोवृत्तप्रत्ययादन्योऽन्यमभावः , प्रतीतस्तथा . मृदाद्यनुवृत्तप्रत्ययावस्थितिरपि तद्वदर्थग्राहिणी । क्षणिका बुद्धिश्चेदास्तां बुद्धेः क्षणिकत्वेऽपि प्रतिपत्तुरक्षणिकत्वात् । तथाहि प्रत्यक्षा १. तेन जीवेनः सम्बन्धो यस्य । २. बन्ध ३. सामान्य । ४ पर्याय । ५. विनश्वरतया ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193