Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
प्रमाणसुन्दरः। वकैः सहेदमुद्गरति यथा 'कूलंकषाकूले मोदकराशयः सन्ति धावध्वं माणवकाः' इति, तथा कचित् कार्ये व्यासक्तचेता माणवकैः कदर्थितो दोषाक्रान्तोऽपि निजाश्रमात् तदुच्चाटानायेदं ब्रूयाद्वा, मोहाक्रान्तस्तु साह्यादिः 'अङ्गुल्यो करिनिकरशतमास्ते' इदमुनिरेद्दा, न ह्यज्ञानमहीधराक्रान्तः पुमान् यथावद्वस्तु विवेचयितुं क्षमो विपरीतार्थोऽपि स्थापकप्रमाणावसेयत्वादागमाभासतेति । तदित्थमगवैकल्यादिवैपरीत्येन सङ्ख्याभासविषयाभासफलाभासादयः प्रतिपत्तव्याः । अतः प्रमाणतदाभासस्वरूपौ यथावत् प्रतिपन्नाऽप्रतिपन्नधर्मों जयेतरव्यवस्थानिवन्धनं स्यातामिति । अनुमाननिर्णयः ।
॥ श्रीप्रमाणसुन्दरप्रकरणे साभासः अनुमानखण्डः तृतीय. ॥
__*
*
साक्षादाप्तज्ञानातिशयपरिच्छिन्नयथावदर्थप्रतिपत्तिरागमः । स च शब्दात्मकः प्रमाणकारणकार्यत्वादुपचारतः प्रमाणम्, मुख्यतस्तैत्सवेदनमेव । एतस्योपदेष्टाऽतीन्द्रियार्थद्रष्टा भगवानेव । आगमस्य च पौरुषेयत्वादेव प्रामाण्यप्रतीते, आप्तपुरुषाधीनवात् , अन्यथा जलधरध्वानोन्मत्तसुप्तप्रलापादेरपि प्रामाण्यप्रसङ्गः।
अथापौरुषेयाः वेदा अस्मर्यमाणकर्तृत्वात्, ततः कर्तृस्मरणमन्तरेण वेदाः प्रमाण चेन्न च कर्तृस्मरणं परस्यानिष्टम् , स हि पदवाक्यत्वेन हेतुना तत्कर्तुः स्मरणं प्रतीयन् कथं तत्स्मरणस्यानिष्टतां ब्रूयात् । अपौरुषेयत्वं स्वतः सिद्धं चेत् कथं प्रतोयेम ? यदि लौकिकेनाग्न्यादिशब्देनाविशिष्टत्वाद् वैदिकस्याग्न्यादिशब्दस्यार्थप्रतिपत्तिस्तर्हि पौरुषेयेणाविशिष्टत्वात् पौरुषेय एवासौ कथं न स्यात्, लौकिकस्य ह्यग्न्यादिशब्दस्यार्थवत्त्वं पौरुषेयत्वेन व्याप्तम् । तत्रायं वैदिकोऽग्न्यादिः पौरुपेयत्वं परित्यज्य तदर्थमेव ग्रहोतुमशक्नोति । उभयमपि हि गृह्णीयात् । न च लौकिकवैदिकशब्दयोः शब्दधर्मत्वाविशेषे सङ्केतग्रहणसव्यपेक्षत्वेनार्थप्रतिपादकत्वेऽनुच्चारितयोश्चान्येनाश्रवणे तुल्येऽन्यो विशेषोऽस्ति यतो लौकिकवैदिकयोः पौरुषेयापौरुपेयत्वसम्भवः । न चापौरुषेयत्वे पुरुषेच्छावशादर्थप्रतिपादकत्वं युक्तम् । उपलभ्यते च यत्र पुरुषै सङ्केतिताः शब्दास्तं तमर्थमविगानेने प्रतिपादयन्ति । ततोऽन्यथा तत्सङ्केत मेदकल्पनाऽऽनर्थक्यं स्यात् । ततो 'ये पुरुषवचनरचनाविशिष्टास्ते पौरुषेया यथाऽभिनवकूपप्रासादादिरचनाविशिष्टा जीर्णकूपप्रासादादयः, पुरुषवचनरचनाविशिष्टं च वैदिक वचनम्' इति । श्रूयते च श्रतिभ्योऽपि तत्कर्ता । 'यो वेदांश्च प्रहिणोति' इत्यादि 'हिरण्यगर्भ. समवर्तताने वेति
१. अर्थ । २. ज्ञान । ३ जानन् । ४. अनिन्दनेन । ५. पुरुषसङ्केतमन्तरेण । ६ शब्द ।
Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193